________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
५१
देहात्मनोः स्वरूपभिन्नतां प्रदर्श्यात्मनि देहगतजङस्वभावत्वं - विकृतत्वं
निषेधयन्नाह -
देहः पुद्गलसङ्घातो जडस्त्वं तु चिदात्मकः ।
एतत्सौरूप्यवैरूप्ये स्वा(सा) दनादि कथं तव ? ॥१७॥
पद्मप्रभा० ‘देह' इत्यादि, 'देहः' काय: 'पुद्गलसङ्घातः ' पूरणगलनस्वभावानां पुद्गलानां समुदायरूपस्तस्मादेव कारणा ज्जडः' - जडस्वरूपः - चैतन्यविकलः 'त्वं तु' आत्मा तु, तुशब्द आत्मानं पुद्गलाद्विशिनष्टि - 'चिदात्मकः' ज्ञानादिचैतन्यस्वरूपः चैतन्यवानिति । 'एतत्सौरूप्यवैरूप्ये' एतस्य देहस्य सुरूपविरूपाऽवस्थायां स्वादनादि'हर्षः आदिपदात् शोकः ‘कथं तवा 'त्मनः ? 'सादनादि' इति पाठे तु सौरूप्यं - सुरूपता वैरूप्यं - विरूपता तयोः सत्योः 'सादनादि' इति सादनं-क्षयः, आदि शब्देन जीर्णताशीर्णतेत्यादि तव - आत्मनः कथं ? सादनादिधर्मा देहस्य न तु तवात्मनः चित्स्वरूपस्येत्यर्थः । इदमत्र तात्पर्यं - निश्चयदृष्ट्याऽऽत्मा चिदात्मकश्चिन्मयश्चित्स्वरूप अत एव सुरूपो अजरामराविनाशिस्वभावो वर्तते, तस्मिन्न सादनादिकं सम्भवति । देहस्तु पुद्गलरूपः पुद्गलस्य सडन- पडन - विध्वंसनस्वभावत्वात् सादनादिका धर्मा देहस्य न त्वात्मन इति । परन्तु अज्ञानाहितविपरीतवासनया कर्मजनितविकारेण वा विकृतात्मा देहधर्मानात्मन्यारोपयति तं प्रत्ययं 'सादनादि कथं तव' इति प्रश्नः । अर्थान्न ते तव धर्मा इति । 'सादमादि' इत्यपि क्वचित्पाठः स त्वशुद्ध इति सम्भाव्यते ॥१७॥
स्वकीयचित्स्वरूपं विस्मृत्य देहे ममायमानमात्मानं स्वीयचित्स्वरूपे विश्रान्तये आत्मैव सम्बोधयतीत्याह -
यद्दृश्यं तदहं नास्मि, यच्चादृश्यं तदस्म्यहं ।
अतोऽत्रात्मधियं हित्वा, चित्स्वरूपं निजं श्रये ॥ १८ ॥
पद्मप्रभा० ‘यदृश्य' मित्यादि, 'दृश्यं' चर्मचक्षुगोचरं देहादि तद्देहादिस्वरूपोऽहं नास्मि । तर्हि अहं कः ? कीदृशो वाऽस्मि ? इत्याह- 'यच्चादृश्यं तदस्म्यहं ' अहमित्याकारकप्रत्ययमात्रगम्योऽदृश्यश्चर्म - चक्षुदर्शनाविषयो स्वसंवेदनसंवेद्यो ज्ञानादिमानात्माऽस्मि । अर्थात् दृश्यमानो देहो नात्मा । 'अतोऽत्र' अतः अस्मात्कारणादत्र - देहे 'आत्मधियं 'ऽऽत्मबुद्धिं त्यक्त्वा निजं 'स्वं चित्स्वरूपं 'श्रये' - भजे, आश्रयामि