________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः तादृशभ्रमणे च निमित्तं तादृशः पाषाणः येन चक्रं भ्रमात्मना परिणमते तथैव द्रव्यकर्मात्मपरिणामयोश्च निमित्तनैमित्तिकभावो वर्तते । तेन किमायातमित्याह तस्मात्' निमित्तनैमित्तिकतारूपात् कारणात् अस्तु' भवतु'स्फुटं' व्यक्तं जीवद्रव्यकर्मणोः कर्तृकर्मता तत्फलभोक्तृता च । अयं भाव:- यथा व्याप्यव्यापकभावेन जीवभावकर्मणोः कर्तृकर्मता तत्फलभोक्तृता च तथैव निमित्तनैमित्तिकभावेनाऽपि जीवद्रव्यकर्मणोः कर्तृकर्मता तत्फलभोक्तृता चाऽस्तु न तत्र काऽपि बाधा यथा घटदेः कर्तृता कुलालस्येति ॥१२॥ व्यवहारनयेनात्मनः कर्तृत्वं भोक्तृत्वं च संस्थाप्य निश्चयनयेन तं निराकुर्वन्नाह -
अनादिनिधनं ज्योतिः, कर्तृत्वादिविकारभाक् ।
स्वस्वरूपात् परिच्युत्य, विशत्यन्धे तमस्यहो ! ॥१३॥ पद्मप्रभा० 'अनादी'त्यादि 'ज्योतिः' शुद्धस्वरूपः स्वप्रकाशात्मा 'अनादिनिधन' मिति आदिश्च निधनं चेति आदिनिधने, न आदिनिधने यस्येति अनादिनिधनं स्वरूपेण इदृक् ज्योतिः स्वरूपादधोऽवतीर्य कर्तृत्वादिविकारभाक्' स्वस्याकर्तृत्वेऽपि अहं कर्ता, अहं कर्तेति कर्तृत्वाभिमानधारकः, आदिशब्देन भोक्तृत्वादेः परिग्रहः, अर्थात् अस्वस्वभावभाक् सद् अन्धयतीति अन्धं तस्मिन् अन्धे-वस्तुयाथात्म्यबोधपरिपन्थिनि 'तमसि' तमस्तुल्येऽज्ञाने गाढाज्ञानान्धकारे इति मिलितोऽर्थः, तत्र विशति तद्वान् भवति तदेतदहो आश्चर्यमिति प्रकाशात्मनोऽन्धकारपरिणाम आश्चर्यजनक इति यावत् ॥१३॥
आत्मनि कर्तृत्वादिविकारः क्रियाभ्रमपुरस्सरस्तादृग्विकारजनकक्रियाभ्रमस्यापि किं कारणं तदर्शयन्नाह -
शरीरेष्वात्मसम्भ्रान्तेः, स्वरूपाद् दृक्परिच्युता।
भूताविष्टनरस्येव, तस्मादेव क्रियाभ्रमः ॥१४॥ पद्मप्रभा० 'शरीरेष्वे'त्यादि, 'शरीरेषु' - अनात्मसु 'आत्मसम्भ्रान्तेः' आत्मबुद्ध्यात्मक-भ्रमस्य कारणात् स्वरूपाद्' आत्मस्वरूपात्'दृग्' दृष्टिरात्मन्यात्मबुद्धिः 'परिच्युता' भ्रष्टा निर्गता नष्टेति यावत् । तस्मादेव' स्वरूपदर्शनविरहादेव 'क्रियाभ्रमः' अहं करोमीत्येवं भ्रमः कर्तृत्वाभिमानमिति । अत्र दृष्टान्तमाह-'भूताविष्टनरस्येवेति यथा भूतः प्रेतस्तेनाविष्टो-गृहितो नरो भूतात्मानमेव स्वात्मतया मन्यते भूतक्रियामेव च स्वक्रियां मन्यते तद्वदनात्मभूतेषु शरीरादिषु य आत्मबुद्धिरूपभ्रमस्तस्मात्स्वरूपदृष्टिनाशस्तस्माच्चाहं