________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
बध्यः कर्मपुद्गलसङ्घश्चेत्युभयमपि बन्ध: । मोच्याः कर्मपुद्गला मोचक आत्मपरिणामश्चेत्युभयमपि
मोक्षः ।
१३
एतैर्हि नवतत्त्वैरासंसारादविच्छिन्नसन्तत्या मुद्रितं छन्नं नवतत्त्वरूपमित्यर्थः । तथा क्षुद्ररूपं नानायोनिसंसरणधर्मात्मकमेकेन्द्रियाद्यनेकपर्यायपरिपाटीपर्याप्तशोभनाशोभनशरीरधारि जन्मेमरणाद्यनेकदशोपप्लुतं भणति । नन्वेकेन्द्रियादिशरीरे पुद्गलप्रचयघटिते अतस्मिंस्तद्ग्रहरूपत्वादात्मबुद्धेर्विपर्ययत्वेन मिथ्यात्वमिति चेन्न संवादिभ्रमरूपत्वादस्य । तथाहि
मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि, विशेषोऽर्थक्रियां प्रति ॥ [ प्रमाण. वा. २.५७ ]
दीपोऽपवरकस्यान्तर्वर्तते तत्प्रभा बहिः । दृश्यते द्वार्यथान्यत्र, तद्वद् दृष्टा मणेः प्रभा ॥ दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्ध्याऽभिधावतोः । प्रभायां मणिबुद्धिस्तु, मिथ्याज्ञानं द्वयोरपि ॥ न लभ्यते मणिर्दीपप्रभां प्रत्यभिधावता । प्रभायां धावताऽवश्यं, लभ्यते वै मणिर्मणेः ॥ दीपप्रभामणिभ्रान्तिर्विसंवादिभ्रमः स्मृतः ।
मणिप्रभामणिभ्रान्तिः संवादिभ्रम उच्यते ॥ [ ]
तद्वदत्राप्येकेन्द्रियशरीरे जीवोऽयमिति बुद्ध्या प्रवर्तमानस्यातस्मिंस्तद्ग्रहरूपत्वाद् विपर्ययत्वेऽपि संवादिभ्रमत्वाज्जीवपदार्थबोधो निर्बाध इति, एतन्नयस्यैवं विषयत्वाच्च । अयं हि क्वचिद् द्रव्ये द्रव्यमारोप्य पदार्थं व्यवस्थापयति, यथैकेन्द्रियादिजीवोऽयमिति, अत्र हि पुद्गलद्रव्ये जीवद्रव्यस्योपचारः १ । क्वचिद् द्रव्ये गुणमारोपयति, यथा ज्ञेये जीवे [Sजीवे ]' च ज्ञानमिति २। क्वचिद् द्रव्ये पर्यायमारोपयति, यथा परमाणुर्बहुप्रदेशीति । परमाणोर्हि द्रव्येणैकप्रदेशमात्रत्वेऽपि द्विप्रदेशाद्युद्भवहेतुभूततथाविधस्निग्धरूक्षत्वपरिणामशक्तियोगित्वादनेकप्रदेशत्वमिति ३। एवं गुणे गुणारोपः, यथा मूर्तं मतिज्ञानं मूर्तक्षायोपशमिकोपयोगशक्तिजन्यत्वान्मूर्तेन्द्रियजन्यत्वाच्चेति ४। गुणे द्रव्यारोपः, यथा शुक्लः पटः ५ । गुणे पर्यायोपचारः, यथा ज्ञानं ज्ञेयाकारमिति ६। पर्याये पर्यायोपचारः, यथा एतस्येदं प्रतिबिम्बमिति ७। पर्याये द्रव्योपचारः, यथा स्थूलस्कन्ध अहो पुद्गलद्रव्यमिति ८। पर्याये गुणोपचारः, यथा उत्तमं वपुः पश्यतः सुन्दर (रं) वपुरिदमिति ९। एवं नवधा वस्तु व्यवहरन्नव्युत्पन्नव्युत्पत्त्यङ्गं भवतीति । एतदेवाह - 'अबुधजनविबोधार्थम् ' १ रूपीत्यर्थः रा० । २ जनन सू० । ३ कोष्ठान्तर्गतः पाठः रा प्रतौ नास्ति ।