________________
१४
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा इति अबुधा यथावद् वस्तुस्वरूपानभिज्ञेया' ये जना लोकास्तेषां विबोधार्थम् अस्य व्यवहारस्य उपदेशःप्रणयनम् । अयं हि अबुधानां म्लेच्छभाषेव म्लेच्छानां परमार्थाभिधायकत्वादपरमार्थोऽपि वस्तुस्वरूपावबोधार्थं दर्शितः । तथाहि - यथा म्लेच्छस्य 'स्वस्ति' इत्यभिहिते सति किमस्य वाच्यमित्यनवबोधे न कदाचिदपि पदार्थस्फूतिः स्यात् तथाऽबुधस्यापि 'आत्मा' इति उक्ते किमस्य वाच्यमित्यनवबोधे न काचिदपि पदार्थस्फूर्तिः स्यात् । यदा तु तद्भाषाविदा केनचित् स्वस्तिपदस्य कल्याणोऽरोगाद्यभिधेयमभिधीयते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यत एव तथाऽबुधस्यापि निश्चय-व्यवहारविदा सद्भूतासद्भूतव्यवहारमास्थाय अतेति दर्शन-ज्ञानचारित्राणीत्यभेदात्मके वस्तुनि भेदमुत्पाद्य, यथा वा अतति ताँस्तान् स्थावर-जङ्गमपर्यायानिति विकारिणं प्रदाभिधेयं प्रतिपाद्यते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यते । यतो ह्यनन्तधर्मात्मकस्य वस्तुनोऽनभिज्ञस्य विनेयस्य धर्म-धर्मिणोनिश्चयतोऽभेदेऽपि व्यपदेशतो भेदमुत्पाद्य केनचिधर्मेणानुशासतः सूरर्व्यवहारेणैव दर्शनं ज्ञानं चारित्रमित्युपदेशः संजाघटीति। यद्वक्ष्यते व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनादिति । यथा वा त्रस-स्थावरादयो य एते पर्यायास्ते सर्वेऽपि निश्चयेन सहजविजृम्भितानन्तज्ञानशक्तिहेतुकसर्वदाऽनपायिनिर्विकारस्वाभाविकजीवत्वभृतोऽप्यस्यैवानाद्यविद्यादूषिततयोद्भवतः कार्यरूपा इति मिश्रपरिणामात्मकेषु तेषु जीवत्वं प्रतिपाद्यते तदा तेषु जीवोऽयमिति बुद्ध्या करुणया सङ्घट्टन-मर्दन-हिंसनादीनि परिहरतः संसारनिस्तारो भवतीति महानुपकारः कृतः स्यात् । तीर्थप्रवृत्तेश्चैवमेव व्यवस्थितत्वादित्यनुपदमेव वक्ष्यते । एवं व्यवहारस्वरूपमभिधाय केवलव्यवहारपक्षपातिनं दूषयति - जिनसमयेति । जिनो भगवान् षड्जीवकायनिशुम्भनव्यावृत्तः सर्वज्ञभट्टारकस्तस्य समयः सिद्धान्तः । तत्र विमूढः स्याद्वादरूपभगवदागमानभिज्ञ इत्यर्थः । कोऽसौ ? यः केवलं निरपेक्षम् अमुं व्यवहारं श्रितः।
___ अयमर्थः - निश्चयतो निरुपरागात्मतत्त्वमश्रद्दधानो धर्मानुरागेणोपलिप्तचित्तभित्तिर्भूयो भूयः शुभोपयोगतया परिणमन् बन्धसाधनमपि व्रत-तप:प्रभृतिकर्मकाण्डं मोक्षहेतुत्वेनाभ्युपयन् भिन्नसाध्य-साधनभावावलोकनेन निरन्तरं खिद्यमानः प्रवचनजननीसमाराधननिविष्टदृष्टिः परीषहाद्युपनिपातेऽपि [मनागप्यनुद्विजमानः सकलक्रियाकाण्डोत्तीर्णदृग्ज्ञानवृत्त्यैक्य-परिणतिरूपां ज्ञानचेतनां] मनागप्यनुतिष्ठन् समुपचितशुभकर्मभरमन्थरः सुरलोकादिक्लेशमनुभूय पुनः संसारमेव विशतीति केवलव्यवहारावलम्बिनः साध्यासिद्धिरेव । तदुक्तम् -
"चरण-करणप्पहाणा, ससमय-पररसमयमुक्कवावारा ।
चरण-करणस्स सारं, णिच्छयसुद्धं ण याणंति ॥" [सन्मतिप्रकरण, ३.६७] १ वस्तुस्वरूपं अनभिज्ञेयं येषां ते इति समासविग्रहः । २ अतति इति आत्मा इति व्युत्पत्तिदर्शनाय अत्र 'अतति' इति क्रियापदं न्यस्तम् । ३ अभ्युपगच्छन् - स्वीकुर्वन् इति भावः ।