________________
१२
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा विज्ञानस्वभावातिरिक्तस्वभावबोधकत्वेनाशुद्धद्रव्याऽऽदेशितया नात्मनो याथात्म्यावेदकः । ननु तहि सर्वथैतस्यानुपादेयता भविष्यतीति चेन तीर्थप्रवृत्त्यन्यथानुपपत्त्यैतस्यावश्यं कक्षीकरणीयत्वादिति स्वयमेवाग्रे भावयिष्यामः। एवंद्वयोः स्वरूपाभिधानपुरस्सरं व्यवहारस्य हेयतामभिधाय किञ्चिद् विशेषाभिधानपूर्वकं निश्चयस्योपादेयत्वमाह - "भूतार्थस्तु" इति ।तु विशेषद्योतनार्थः। यस्माद्धेतो तार्थो विशुद्धवस्तुकलनाऽभिज्ञः सकलोपाधिविविक्त-शुद्धद्रव्याऽऽदेशितया शुद्धं वस्तु परिचाययितुं प्रवीणः । ततो ननु निश्चितं भूतार्थं संश्रितः सम्यग्दृगात्मा विशदधीः भवेत् । यथा यथा निश्चयनयं' भाति तथा तथा विषयेष्वरज्यमानः शुद्धात्मानुभवाभिमुखी भवति । यथा यथा शुद्धात्मानुभवाभिमुखी भवति तथा तथा वैशद्यमस्य चिति २ समुल्लसतीति भावः ॥५॥ पुनरपि व्यवहारस्वरूपमेव वृत्तान्तरेण स्पष्टयतिव्यवहरणनयोऽयं पुंस्वरूपं विकारि
भणति च नवतत्त्वैर्मुद्रितं क्षुद्ररूपम् । अबुधजनविबोधार्थ किलास्योपदेशो
जिनसमयविमूढः केवलं यः श्रितोऽमुम् ॥६॥ व्याख्या - अयं व्यवहरणनयः पुंस आत्मनः स्वरूपं विकारि भणति, परमार्थतः शुद्धनिरञ्जनानादिनिधनचैतन्यमात्रयुक्तमपि अनादिवस्त्वन्तरभूतमोहोपाधिसमुत्थमिथ्यादर्शनाज्ञानाविरत्यादिविकारभाग् ब्रूते, तथा नवतत्त्वैर्मुद्रितं ब्रूते, नवसङ्ख्याकानि तत्त्वानि नवतत्त्वानि तैर्मुद्रितं सुगतमित्यर्थः । जीवाजीव-पुण्य-पापास्रवसंवर-निर्जरा-बन्ध-मोक्षलक्षणानि हि नवतत्त्वानि जीव-कर्मणोरनादिबन्धपर्यायवशत आत्मन्युत्प्लवमानानि केवलजीवविकारभूतानि । तथा केवलाजीवविकाररूपाः पुण्यपापास्रव-संवर-निर्जरा[बन्ध]-मोक्षाः स्वयमेकस्य पुण्यपापास्रव-निर्जरा-बन्ध-मोक्षानुपपत्तेः । तथाहि-शुभपरिणामः पुण्यम्, [तन्निमित्तीकृत्य शुभतया सञ्चीयमानः कर्माणुप्रचयोऽपि पुण्यम् । अशुभः परिणामः पापम्,]५ तन्निमित्तीकृत्याशुभतया सञ्चीयमानः कर्माणुप्रचयोऽपि पापम् । तथा येन परिणामेन करणभूतेन इन्द्रियकषायाव्रतादिना कर्म आस्रवति स आस्रवकः, आस्राव्यं च कर्मेत्युभयमप्यास्रवः । तथा संवार्याः कर्माणुसङ्घाः संवारक आत्मपरिणामस्तदुभयमपि संवरः । भुक्तरसकर्मपुद्गलपरिशाटनहेतुरात्मपरिणामो निर्जरक: निर्जर्याश्च भुक्तरसकर्मपुद्गलास्तदुभयमपि निर्जरा । बन्धको राग-द्वेष-मोहरूप आत्मपरिणामो १ क्रियाविशेषणम् । २ 'चित्'पदस्य सप्तम्यन्तम् । चिति-चैतन्ये । ३ टीकारहितमूलद्वात्रिंशिका-प्रतौ क्वचित् निम्नलिखिते अन्त्ये द्वे पङ्क्ती यथा - 'नियतनयविरुद्धं पुंस्वरूपं व्यवस्यन्नयमपि निखिलोऽन्तशिभिस्त्याज्य एव' ॥६॥ ४ तुलनार्थं 'समयसार-टीका' १३ टीका (पृ.३१, ३२ प्रका० रायचन्द्र जैनशास्त्रमाला) दृष्टव्या।५ कोष्ठगतः पाठः रा-प्रतौ नास्ति ।