________________
७४]
[विवेकमञ्जरी
10
कारयन्तं च सङ्गीतं तदन्तः स्फीतवैभवम् । वारस्त्रीचामरोद्वीज्यमानं सानन्दमानसम् ॥११॥ दृष्ट्वा शौरिस्तदाकारं सर्वथा पृथिवीपतिम् । किं कुमारोऽयमित्यन्तश्चिन्तयामास विस्मितः ॥९२॥ युग्मम् ॥ एकाकिनोऽस्य तुरगापहृतस्य कुतो ह्यदः । साम्राज्यमथवा कश्चिद् नृपोऽन्योऽयं तदाकृतिः ॥९३॥ इत्ययं संशयानोऽत्र क्षणे बन्दिवचोऽश्रृणोत् । सनत्कुमार ! नन्द त्वं विश्वसेननृपाङ्गज ! ॥९॥ श्रुत्वेति मुदितः शौरि नर्त विलसद्भुजः । धन्योऽहमद्य धन्योऽहमित्युच्चैरुच्चरन् वचः ॥९॥ श्रुत्वेति तं च दृष्ट्वोपलक्ष्य चैषोऽभ्यधावत । परिरब्धं कुमारोऽब्धिरिव राकानिशाकरम् ॥९६।। मिथः स्वजन्तौ तौ बाष्पाम्बुभिः स्नेहमहीरुहम् । चक्रतुर्विरहप्लुष्टं रोमाञ्चैः पत्रलं किल ॥९७॥ अन्तः प्रवेष्टमनसौ किल तौ मिलितौ मिथः । भुजार्गलापिनद्धौ न व्यघटेतां कपाटवत् ॥९८॥ शूरसूनुरनूनेन विनयेन नृपाङ्गजम् । अथो ननाम रजसा स्वं ललाम ललामयन् ॥९९।। यथासनमथासीनौ तावुभावथ भूपभूः । उवाच शौरिं कच्चित् ते शुभं ताताम्बयोरपि ॥१००॥ सोऽप्यूचेव देव ! विश्वस्य विश्वस्याप्यद्य विद्यते । शुभं त्वयि जगज्जीवे दिष्ट्या दृष्ट्या विलोकिते ॥१०१॥ इति क्रमेण कथिताशेषवार्तोऽरमादरात् । कुमारादेशतो वारस्त्रीभिः स्नानमकारयत् ॥१०२॥
20.