SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [७३ गुणानुमोदनाद्वारे सनत्कुमारकथा ] देव ! प्रसादमाधाय निवर्तस्व पुरं प्रति । अहं शुद्धिं कुमारस्यानेष्ये कतिपयैर्दिनैः ॥७९॥ एवमुक्त्वा नृपं म्लानमुखाब्जं शूरनन्दनः। जगाम मित्रमन्वेष्टुं सन्ध्याराग इव क्षणात् ।।८०॥ स भ्राम्यन्मन्युहृत्पूरपूरितः परितोऽपि हि । सनत्कुमारमग्रस्थं जातरूपमथैक्षत ॥८१॥ प्रतिग्रामं प्रतिपुरं प्रत्यद्रि प्रतिपत्तनम् । पर्यटन्नटवीं चापि विशश्राम न नाम सः ॥८२।। यावत् संवत्सरं भ्राम्यन् सनत्कुमारदिदृक्षया । प्रवृत्तिमपि न प्राप क्वापि दुःस्थ इव श्रियम् ॥८३।। सदा भ्रमन्नरण्यानीं सदागतिरिवान्यदा । क्षीरार्णवमिवाद्राक्षीदग्रतो विपुलं सरः ॥८४॥ स-हंसवयसं स्वच्छं प्रकृत्या विपुलाशयम् । दृष्ट्वैष मुमुदे सारं कासारं तं कुमारवत् ॥८५।। तत् प्रविश्य सरो यावज्जलकेलिं चकार सः । तावदस्याभवत् कर्णसङ्गी संगीतकध्वनिः ॥८६॥ ततस्तदनुसारेण व्रजन्नेण इवोच्चकैः । शिबिरं सरसः सेतुमृष्टरेणु स दृष्टवान् ॥८७॥ उलत्पुच्छकल्लोलं वाजिवृन्दं समुद्रवत् । तत्रैकतो ददशैष गजानपि घनानिव ॥८८॥ शिबिरदक्षिणेनैक्षि तेनाशोकवनीतले । आस्थानी च सुधर्मेव शस्या कस्यापि भूपतेः ॥८९॥ परितस्तां च स स्फारस्फरानैक्षिष्ट खड्गिनः । अर्केन्दुकलिताल्लोकालोककूटानिवोद्भटान् ॥९०॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy