SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७२] [विवेकमञ्जरी 10 सहदेवीति तस्यासीद् देवी देवीव रूपतः । दासो यदाननस्येन्दुरङ्कितः शङ्कितो जनैः ॥६७|| च्युत्वाऽथ जिनधर्मेन्द्रस्तस्याः कुक्षिकुशेशये । चतुर्दशमहास्वप्नसूचितः समवातरत् ॥६८॥ जिनो वा चक्रवर्ती वाऽवतीर्णेऽयमिति स्वयम्। मिथः स्वप्नान् विचार्याऽन्वमोदेतां राजदम्पती ॥६९।। अथो नवसु मासेषु पूर्णेषु नृपवल्लभा । विश्वचैत्रमियं पुत्रमसूत श्रीरिव स्मरम् ॥७०॥ जन्मोत्सवं विधायोच्चैः पितरौ दुस्तरौजसः । सनत्कुमार इत्यस्य व्यधातामभिधामथ ॥७१।। पञ्चोच्चग्रहजन्माऽसौ पुत्रः पञ्चजनेशितुः । धात्रीभिः पञ्चभिः पाल्यमानोऽभूत् पञ्चवार्षिकः ॥७२॥ शस्त्रशास्त्रकलापात्रं वर्धमानः क्रमादयम् । रमारामाभिरामाङ्गोऽभवद् यौवनमाश्रितः ॥७३।। महेन्द्रसिंहनामाऽस्य सपांशुक्रीडितः सुहृत् । बभूव शूर-कालिन्दीसुतः सत्प्रीतिविश्रुतः ॥७४।। अन्यदा वन्यदावाग्निव्यंशुकानिह किंशुकान् । तन्वंस्तापयितुं पान्थान् वसन्तर्तुरवर्तत ॥७॥ समं सनत्कुमारेण समहेन्द्रेण भूपतिः । उद्यानमगमत् क्रीडाविधौ तत्र मधूत्सवे ॥७६।। कुमारः सारवीक्षार्थं निजाश्वस्य कशामदात् । यावद् तावदसौ भेजे मनसोऽपि नवं जवम् ॥७७॥ तस्मिन्नदर्शनीभूते वृत्तान्तं विश्वसेनराट् । । ज्ञात्वाऽनुयान् महेन्द्रेण निषिद्धः स्वपदग्रहम् ॥७८॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy