________________
[७१
गुणानुमोदनाद्वारे सनत्कुमारकथा]
कल्याणपात्रं कल्याणपात्रस्यास्य त्वचेतनम् । भागीव भागमादाय पृथग् जज्ञे नृपाग्रतः ॥५५।। "अथागत्य निजागारमापृच्छय स्वजनानयम् । . दीक्षां गृहीत्वाऽध्यारोहद् विवेकमिव पर्वतम् ॥५६॥ साक्षादिवाप्रमत्तत्वशिखरं मुनिशेखरः । तत्रारूह्य किलामुह्यन्नसावनशनं व्यधात् ॥५७।। अन्वर्धमासं प्रत्याशं परां काष्ठां चकार सः । लोकपालैः समं सख्यं भावीन्द्रो घटयन्निव ॥५८॥ तस्योत्सर्गजुषो गृध्राः पृष्ठमांसादनं व्यधुः । अतः सत्यं चकाशे यद् मुनेरपि वनेऽरयः ॥५९॥ तत्रैवं सूत्रयन्तस्ते क्षते क्षारमिव न्यधुः । महात्मा सोऽधिसेहे तु निजदेहेऽपि निःस्पृह ॥६०॥ षष्टिं दिनान्यनाहारः प्राप्यायुः पारमात्मनः । इन्द्रो बभूव सौधर्मे जिनधर्मो महामुनिः" ॥६१।। त्रिदण्ड्यप्याभियोग्येन कर्मणोपार्जितेन सः । मृत्वाऽस्य वाहनत्वेन तत्राभूदभ्रमूपतिः ॥६२॥ कदाचित् कर्मणा जीवस्तेन कर्म कदाचन । यथाऽधः क्रियतेऽभूतां तौ भवान्तरितौ तथा ॥६३॥ गजश्च्युत्वा भवं भ्रान्त्वा मत्र्ये चाज्ञानकष्टतः । यक्षोऽसिताक्ष इत्यासीदसौ कैलासभूधरे ॥६४॥ $$ इतश्च भारते क्षेत्रे कुरुमण्डलमण्डनम् । इहास्ति हास्तिनपुरं पुरं सुरपुरोपमम् ॥६५॥ शुनासीरनिभस्तत्रारिभूभृत्पक्षशातनः । विश्वव्याप्यश्वसेनोऽभूद् विश्वसेनो नरेश्वरः ॥६६॥