________________
[६९
10
गुणानुमोदनाद्वारे सनत्कुमारकथा]
मन्त्रिभिः प्रेरितो राजा तत् कुजं यावदभ्यगात् । पवनापूर्णभस्त्रावदुच्छूनं तावदग्रतः ॥३१॥ चलत्कृमिकुलाकीर्णं फलमौदुम्बरं यथा । नवश्रोत्रमुखोद्वान्तविस्रपूयास्रकिल्बिषम् ॥३२॥ फेरुण्डखण्डितोपाङ्गं शकुन्याकृष्टलोचनम् । अद्राक्षीदेष बीभत्सतमं विष्णुश्रियः शवम् ॥३३॥ विशेषकम् ॥ स दृष्ट्वेदं सनिर्वेदं चिन्तयामासिवानिति । वराकीयं मृता हन्त ! नाज्ञासिषमिदं हहा ! ॥३४।। अहं कदाग्रही बाल इव मूर्ख इवान्धवत् । शुचिभिः सचिवैरस्मि साधु साधु विबोधितः ॥३५।। "रे जीव ! यत्कृते जातिर्लज्जा शीलं कुलं यशः । त्वया त्यक्तं तया त्यक्तो भवानेकपदेऽपि हि ॥३६॥ त्यक्तोऽनया यथाऽकस्मादायुषपि भवांस्तथा। त्यक्ष्यतेऽसौ यथा त्यक्ता तज्जीव ! सुकृतं कुरु ॥३७॥ विचिन्त्येति निवाधं स्वमनोऽश्वं च चञ्चलम् । सौधमागत्य सामन्तचक्रे चक्रेऽधिपं सुतम् ॥३८॥ सुव्रताचार्यतः प्राप्य स व्रतं संवृतेन्द्रियः ।
मृत्वा कल्पेन कल्पेऽभूत् तृतीये त्रिदशस्ततः ॥३९॥ $$ इतश्चास्ति पुरं रत्नपुरं तत्राभवद् नृपः ।
नरवाहन इत्येष भिक्षुकाणां मते रतः ॥४०॥ तत्र च्युत्वा स देवत्वाज्जिनधर्मदृढाशयः । जिनधर्माभिधानोऽभूद् महेभ्यतनयो नयी ॥४१॥ संसारसागरे मर्त्यरत्नद्वीपमुपागतः । स दौर्गत्यच्छिदे रत्नत्रयार्जनपरोऽभवत् ॥४२॥
15
20