________________
5
10
15
20
६८ ]
नृपतिर्यावदायासीदालोच्य सचिवैः सह । वासौकस्तावदद्राक्षीद् मृगाक्षीशून्यमञ्जसा ॥१९॥ अथ क्रशन्नमूंस्तेषामधावत वधाय सः । उल्लण्ठोल्लण्ठवद् दूरं मुमुचे सचिवैस्त्वयम् ॥२०॥ द्वित्रैर्दिनैः समागत्यामात्या वात्यायितं नृपम् । प्रहासगर्भितैर्भक्तियुक्तिवाक्यैरसान्त्वयन् ॥२१॥ "किमर्थ देव ! कोपोऽयं कृतकोपशमे त्वयि । कश्च ते मनसो मोहः परमोहभिदाभृतः ? ||२२|| जितविश्वकलाले ! कलाकेलिरयं किमु । बाधते त्वां निजक्षत्त्रवंशकेतो ! विशारद ! ||२३|| देव ! त्वमसि नो नाथः सदादेशं तवान्वहम् । वयं विदध्महे तस्मात् प्रसीद किमु सीदसि ?" ॥२४॥ श्रुत्वेति वचनं तेषां स्वाग्रहग्रहिलो नृपः । विष्णुश्रीर्दर्श्यतां मह्यमुवाच सचिवानिति ॥ २५ ॥ प्रोचुस्ते देव ! सा चण्डकोपाऽध्यास्ते पुराद् बहिः । मानिनीं मानयामस्तां संभूय चलताऽधुना ॥ २६ ॥ इत्युक्त्वा नृपतिर्नीतो विनीतैरिव मन्त्रिभिः । तत्र राज्ञीशवं यत्रारक्षै रक्षितमस्ति तत् ॥२७॥ तत्र दुर्गन्धमाघ्राय सर्वे नाशापुटं व्यधुः । हा ! किमेतदिति प्रोक्ता मन्त्रिणोऽप्यूचिरे नृपम् ॥२८॥ देव ! कोपेन कुथिता देवी कुञ्जेऽत्र वर्तते । गन्धोऽयं दुस्सहोऽन्येषां तस्य गन्धकरेरिव ॥२९॥ तद् यूयमेव गत्वा तां पुरः सान्त्वयत क्षमम् । उपरोत्स्यामहे पश्चादागत्य वयमप्यमूम् ॥३०॥
[ विवेकमञ्जरी