________________
[६७
गुणानुमोदनाद्वारे सनत्कुमारकथा]
लम्पाकाया वियोगेऽस्या राकाय इव चन्द्रमाः । तमसा स्कन्दितो नागदत्तोऽभूद् विकलः किल ॥७॥ हा ! हंसगमने ! चन्द्रवदने ! पह्मलोचने ! । प्रिये ! विष्णुश्रि ! क्वासि मे देहि दर्शनम् ॥८॥ क्रोशन्निति वृतौ बालैर्मशकैरिव गौरसौ । संभ्रमी बम्भ्रमीति स्म चतुष्के चत्वरे त्रिके ॥९॥ युग्मम् ॥ राजा पुनस्तदासक्तस्त्याजान्तःपुरं परम् । नेहलोकं न च परं लोकं चिन्तयति स्म च ॥१०॥ स कामं करणाचार मुक्त्वान्यमविचारकः । सकामं करणाचारं तयैव सह तेनिवान् ॥११॥ एवं विष्णुश्रिया सार्धं मग्नस्य रतिसागरे । जगाम क्षणवत् क्षोणिपतेः कालः कियानपि ॥१२॥ अन्याभिरथ राज्ञीभिस्तस्याः कार्मणमादधे । सपत्न्येकापि दुःखाय तावत्यः किं पुनश्च ताः ॥१३॥ ततः श्रद्धालुनेवास्यामन्तकेनापि सा हृता । राजा तु तच्छवं कृत्वोत्सङ्गे मूढोऽब्रवीदिति ॥१४॥ विनयातिक्रमः कोऽपि कोपने ! विहितो मया । यदद्य योगिनीव त्वं कृतमौना न भाषसे ॥१५॥ निजं स्मरामि येनागस्तद् मनोऽग्रे त्वया हृतम् । आदेशं देहि मे देवि ! किङ्करः किं करोमि तत् ? ॥१६॥ इत्यनेकप्रकारं स प्रणमन् मानिनीमिव । सान्त्वयामास तां मोहग्रहिलो महिलां नृपः ॥१७॥ तं तथा विकलं वीक्ष्य मन्त्रव्याजेन मन्त्रिणः । अनयन्नन्यतो मन्त्रिनरास्तच्च शवं बहिः ॥१८॥
15
20