________________
६४]
[विवेकमञ्जरी
स भुजौ च्युतलक्ष्मीको निरैक्षिष्ट निरङ्गदौ । प्रतिमानविनिर्मुक्तौ दन्तीन्द्रदशनाविव ॥११८॥ हस्तावपास्तमाणिक्यकङ्कणौ पश्यति स्म सः । अनालवालवलयाविव किङ्किल्लिकन्दलौ ॥११९॥ शेषा अप्यङ्गुलीमुक्ताङ्गुलीयाः स व्यलोकयत् । अपुष्पाश्चम्पकतरोः शाखा इव गतत्विषः ॥१२०॥ एवं विमुक्तालङ्कारं सोऽपश्यद् वपुरप्रभम् । फाल्गुने मासि विस्रस्तपलाशमिव पादपम्" ॥ १२१।। "अचिन्तयच्च देहोऽयं भूषणैरेव भासते । पलालपूरिता चर्मवर्णकैरिव गब्दिका ॥१२२॥ शरीरं मलमञ्जूषा बहिर्दुर्गन्धभीरुभिः । मूढैः कर्पूरकस्तूरीचन्दनैरधिवास्यते ॥१२३॥ मलोत्पन्नाद् मलैः पूर्णदतोऽङ्गाल्लीनमन्तरा । बोधिजं ज्ञानमादेयं सरसो जलजं यथा ॥१२४॥ स्वकीयान् बान्धवानेव मन्ये धन्यतमानिमान् । यैरिदं राज्यमुत्सृज्य लेभे लोकोत्तरं पदम् ॥१२५॥ अहं तु विषयास्वादपङ्कनिःशूकशूकरः । गणयामि न नामैवमात्मानं मानुषेष्वपि" ॥१२६॥ "चिन्तयन्नित्ययं धीमानपूर्वकरणक्रमात् । भावनां भवनाशाय भावयामास भूपतिः ॥१२७॥ अथोच्चैः सिद्धिसौधाग्रसङ्गजायन्मनोरथः । क्षितीशः क्षपकश्रेणीनिःश्रेणीमारुरोह सः ॥१२८॥ मुनिस्तदानीमानीतकेवलश्रीकरग्रहः । उत्सवोत्सुकचितेन सुरेन्द्रेणाभ्यगम्यत ॥१२९।।