________________
[६३
गुणानुमोदनाद्वारे भरतकथा]
शक्रोऽप्यक्रीडयत् पीडाविस्मारणविधित्सया । एनं प्रतिदिनं नानाविनोदैरात्तसंमदम् ।।१०६।। सांसारिकसुखम्भोधिमग्नो भरतभूपतिः ।
विभोर्मोक्षदिनात् पञ्च पूर्वलक्षाण्यवाहयत्त् ॥१०७॥ FF "अन्येद्युः स्नात्रनिर्णिक्तगात्रष्टिरिलापतिः ।
अन्तरन्तः पुरावासं भूरिभूषणभूषितः ॥१०८।। रत्नादर्शगृहं प्राप वारस्त्रीपरिवारितः । तारिकानिकरोद्भासी शशीव गगनाङ्गणम् ॥१०९।। युग्मम् ॥ तदा विलोकमानस्य नृपस्य मणिदर्पणम् । रूपादप्रतिरूपस्य प्रतिरूपमजायत ॥११०॥ न्यस्तं मोहेन हिञ्जीरमिव तस्य महीशितुः । तदा लीलालुलत्पाणेनिर्जगामाङ्गुलीयकम् ॥१११॥ विना तेनाङ्गुलीयेन तदादशैं कनिष्ठिका। . नि:श्रीका निष्कलेवेन्दुमूर्तिस्तेन विलोकिता ॥११२॥ सौभाग्यं भूषणैरेव बिभर्ति वपुरङ्गिनाम् । निश्चेतुमिति मोक्तुं स प्रारेभे भूषणावलीम् ॥११३॥ विमुच्य मुकुटं हैममयं मौलिं व्यलोकयत् । च्युतार्कबिम्बमुदयगिररिश्रृङ्गमिवास्तरुक् ॥११४।। मुक्ते मौक्तिकताडङ्कयुगे च मुखमार्षभिः । अहंसमिथुनोद्भासिपार्श्वमब्जमिवैक्षत ॥११५॥ व्यलोक्यत् परित्यक्तहारां स हृदयावनीम् । द्यामिवोद्वसितज्योतिश्चक्रां चक्रायुधाग्रणीः ॥११६॥ ग्रीवां विमुक्तमाणिक्यौवेयाममैक्षत । शलाकामिव चैत्यस्य गलितामलसारिकाम् ॥११७॥