SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६२] [विवेकमञ्जरी प्रभूपदिष्टपूर्वैस्तद्वर्णचिह्नप्रसादिभिः । बिम्बानि ऋषभादीनां चतुर्विंशतिमातनोत् ।।९४।। कृत्वा रत्नमयी सर्वभ्रातॄणां प्रतिमा अपि । तत्रोपास्तिपरां चक्री स्वमूर्तिमपि निर्ममे ॥९५।। बहिश्चैत्यं चितास्थाने प्रभोः स्तूपमपि व्यघात् । भ्रातॄणामपि च स्तूपान् नवति स नवाधिकाम् ॥९६।। प्रतिष्ठाप्य च बिम्बानि तत्र चैत्ये यथाविधि । चक्रभृत् पूजयामास पूजया त्रिप्रकारया ॥९७।। स चक्री चैत्यमुत्पश्यन् मुहुर्वलितकन्धरः । वस्त्रान्तमार्जितोन्मज्जद्बाष्पाविलविलोचनः ॥९८॥ निभृतं मौनिभिर्भूपैर्वृतोऽप्येक इव व्रजन् । मन्दं मन्दाहिसंचारमुत्ततार गिरेस्ततः" ॥९९॥ युग्मम् ॥ असौ सैन्यजनैः स्वस्ववाहनत्वरणालसैः । शोकप्रच्छादितोत्साहमयोध्यामागमत् पुरीम् ॥१००॥ नाभेयप्रभुपादानां दिवानिशमसौ स्मरन् । त्यक्तान्यव्यापृतिस्तत्र तस्थावस्वस्थमानसः ॥१०१॥ तममात्यजनो वीक्ष्य सर्वकृत्यपराङ्मुखम् । इति प्रबोधयामास पितृभ्रातृशुचाकुलम् ॥१०२॥ "जगतोऽपि कृतालोकं लोकाग्रपदसंस्थितम् । तातं हृतविपत्पातं शोचितुं तव नोचितम् ॥१०३।। मृत्युनापहते बन्धुजने रोदिति बालिशः । कृती तु तद्विघाताय धर्ममादाय धावति ॥१०४॥ . त्वमप्याक्रान्तलोकेन शोकेन यदि जीयसे । शौण्डीर्यगजितं तत्ते न धत्ते ध्रुवमूर्जितम्" ॥१०५।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy