________________
[६५
गुणानुमोदनाद्वारे भरतकथा]
ख्यापयित्वा बलीयस्त्वं व्यवहारनयस्य सः । शक्रेणाभिदधे दीक्षालिङ्गग्रहणहेतवे ॥१३०॥ केशसंभारमुत्पाट्य मुष्टिभिःपञ्चभिर्नृपः । दत्तं देवतया शेषं मुनिवेषमुपाददे ॥१३१॥ सममेव महीशानां सहस्रैर्दशभिस्तदा । साग्रहैर्जगृहे दीक्षा दक्षैः स्वाम्यनुवृत्यते ॥१३२॥ तदानीं केवलज्ञानमहिमानं महामनाः । व्यधत्त तस्य नाभेयप्रभोरिव क्रतुप्रभुः ॥१३३।। भरतोऽपि ततस्तातवर्तनीमनुवर्तयन् । असिञ्चद् देशनासारसुधाभिरवनीवनीम् ॥१३४॥ अतिक्रम्य ततः पूर्वलक्षं दीक्षादिनादसौ । आरोहद् मुषिताशेषकष्टमष्टापदाचलम् ॥१३५॥ तत्रैष मासक्षपणं विधाय शैलेशिकायोगपरायणोऽथ । जगाम् सिद्धि सुरसार्थनाथनिर्वृत्तनिर्वाणमहोत्सवश्री:" ॥१३६॥२९॥
॥ इति भरतभूषणनामनि महाकाव्ये चतुर्थः सर्गः ॥
15