________________
[५९
10
गुणानुमोदनाद्वारे भरतकथा ]
क्रियासु कृषिमुख्यासु कार्य चेतोऽपि न क्वचित् । भवद्भिः केवलं भाव्यं धर्मकर्मसु कर्मठैः ।।५८।। पाठ्यमेतच्च निश्राव्यं भोजनान्ते मदग्रतः । जितो भवान् भयं चास्ति तस्माद् मा हन मा हन ॥५९॥ मत्वेदमथ ते श्राद्धा भवने तस्य भुञ्जते । पठन्ति च वचस्तत् तद्व्यामोहगरगारुडम् ॥६०॥ सोऽपि श्रुत्वा प्रमादीदं व्यमृक्षद् विजितोऽस्मि कैः । कषायैर्भयमेतेभ्यस्तद् घात्याः प्राणिनो न मे ॥६१॥ प्रमादजाड्ययुक्तस्य नित्यं भरतभूपतेः । तद्वाक्यैरभवद् धर्मध्यानानलहसन्तिका ॥६२॥ श्राद्धश्राद्धविवेकित्वे तन्नियोगिनिवेदिते । चक्री चक्रे परीक्षां तदणुव्रत-गुणवतैः ॥६३॥ श्रावकाणां तदा चक्रे नियूँढानां परीक्षणे । रेखात्रयं स काकिण्या ज्ञानादित्रयसूचकम् ॥६४॥ तत्स्वाध्यायकृते वेदान् यान् निश्चिक्ये स चक्रभृत् । तीर्थच्छेदे त्वनार्यत्वं मिथ्यात्वं चाभजन्त ते॥६५॥ $$ इतश्च तीर्थमृषभसेनादिमुनिसिद्धितः ।
स्वपादस्पर्शनाच्चापि प्रकाश्य विमलाचलम् ॥६६॥ स्वामी मत्वा स्वनिर्वाणसमयं समयागतम् । प्रत्यक्शैलमिवोष्णांशुरारूढोऽष्टापदाचलम् ॥६७॥ प्रत्यपद्यत साधूनां सहस्रैर्दशभिः सह । चतुर्दशतपोयोगात् पादपोपगमासनम् ॥६८॥ विशेषकम् ॥ तथावस्थितमद्रीशपालो व्यालोक्य तं प्रभुम् । गत्वा विज्ञपयामास भूमिवासवमार्षभिम् ॥६९॥