________________
६०]
[विवेकमञ्जरी
श्रुत्वा चतुर्दशाहारपरिहारं जगद्गुरोः । . न चतुर्दशभिर्भेजे रत्नैरपि नृपो मुदम् ॥७०॥ ततश्चरणचारेण चचाल भरतेश्वरः । परितो हरितो रुन्धन्नष्टावष्टापदं प्रति ॥७१॥ वेगादयमथारूढस्तं तथावस्थितं प्रभुम् । अपश्यत् प्रसभोन्मीलद्बाष्पावलिविलोचनः ॥७२॥ स प्रणम्याभवद् यांवदुपास्तिप्रस्तुताशयः । अपश्यत् तावदायातान् सर्वान् गीर्वाणनायकान् ॥७३।। भक्तिशोकभरस्तोमभङ्गुरैः कृतकन्धरैः । तैः समं शमिनामीशमुपासामासिवानसौ ॥७४॥ माघकृष्णत्रयोदश्यां पूर्वाह्नऽभीचिगे विधौ । विध्वस्तकल्मषो मोक्षं स्वाम्येकसमयादयात् ॥७५।। क्षपकश्रेणिमारा बाहुबल्यादयोऽपि च । मुक्तिं दश सहस्राणि मुनयः प्रभुवद् ययुः ॥७६।। प्रभोर्मोक्षक्षणे तत्र नारकेष्वपि सौख्यदे । अज्ञातरुदितश्चकी मूच्छितः क्ष्मातलेऽपतत् ॥७७।। शोकग्रन्थिविभेदाय रुदितं शिक्षयन् हरिः । तस्य कण्ठमथालम्ब्य पूत्कारं तारमातनोत् ॥७८॥ लब्धसञोऽथ राजापि रुदन्नुच्चैः स्वरं चिरम् । विह्वलं शोकपूरेण विलापानकरोदिति ॥७९॥ "नाथ ! त्यक्तः कुतो दोषादनाथोऽयं जनस्त्वया ।
युष्मद् विना कथं भावी भवारण्येऽशरण्यकः ? ॥८०॥ वियोगः सह्यते भानोः पुनरुद्गमनाशया । अनावृत्तिपदस्थस्य भवतस्तु सुदुःसहः ॥८१॥
15