SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५८ ] अथादिदेश भगवान् भूपते ! बन्धवस्तव । भोगान् रोगानिवापास्य किं भूयोऽभिलषन्त्यमी ? ||४६|| आनाय्य भोज्यामथ भूनाथो नाथं व्यजिज्ञपत् । भोजनायादिश स्वामिन् ! तर्हि मे बान्धवानमून् ॥४७॥ अथावादीज्जिनो नेदं प्रकारैः कल्पते त्रिभिः । कारिताभ्याहतत्वाभ्यां राजपिण्डत्वतोऽपि च ॥४८॥ स्वामिनेति निषिद्धेऽस्मिन् सर्वथा तत्खिदाभिदे । अवग्रहभिदाः पृष्टः शक्रेणाख्यज्जगद्गुरुः ॥४९॥ शक्रस्य चक्रिणो राज्ञः स्थानेशस्य गुरोरपि । पञ्चधाऽवग्रहो भावात् पञ्चानामपि पुण्यकृत् ॥५०॥ अथ शक्रः प्रणम्याह प्रभो ! क्षेत्रेऽत्र भारते । मया वासाय साधूनां प्रदत्तोऽयमवग्रहः ॥ ५१ ॥ आकर्ण्य भरतोऽपीति प्रीतो नत्वा जगद्गुरुम् अनुजज्ञे निवासाय साधूनां भारतीं भुवम् ॥५२॥ अथापृच्छद् द्युभर्तारं महीभर्ता ससंमदः । देयं कस्यान्नामानीतमिदमेवं निवेद्यताम् ॥५३॥ गुणाधिकेषु कर्तव्या पूजेत्युक्ते बिडौजसा । साधून् विना गुणी कोऽस्ति मत्तोऽपीति विचिन्तयन् ॥५४॥ ज्ञातं सन्तितमां मत्तः श्रावकाः सद्गुणाधिकाः । तेषां पूजा विधेयेति भरतो निश्चयं व्यधात् ॥ ५५ ॥ युग्मम् ॥ अथ नत्वा जिनं शक्रो द्यामयोध्यामिलापतिः । भगवानपि चान्यत्र जगामाष्टापदाचलात् ॥५६॥ भरतोऽपि रतो धर्मे श्राद्धानाहूय भूयसः । इदं जगाद भोक्तव्यं भवद्भिर्मम मन्दिरे ॥५७॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy