________________
[५७
गुणानुमोदनाद्वारे भरतकथा]
स्थानं तदथ ते याते न तं मुनिमपश्यताम् । दृष्टो गुल्मस्तु वल्लीनां सोच्छ्वासः पुरुषाकृतिः ॥३४॥ तत्र संभाव्य तं ताभ्यां केवलाकृष्टिमन्त्रवत् । उक्तां निशम्य तां वाचं मुनिः सोऽपीत्यचिन्तयत् ॥३५॥ शब्दोऽयं नियतं ब्राह्मी-सुन्दर्योः श्रुतिसुन्दरः । भाषेते नानृतं चैते न चारूढोऽस्मि हस्तिनम् ।।३६।। विकल्पात् कल्पयन्नेवं दध्यौ वन्दे लघून् न यत् । मानोऽयमेव मे हस्ती तमारूढोऽस्मि दुर्विधः ॥३७।। सत्यं मत्वेति तातेन मय्यतीव दयालुना । प्रेषिते प्रतिबोधाय महासत्याविमे उभे ॥३८॥ लघूनपि गुणज्येष्ठान् बन्धून् केवलबन्धुरान् । सिद्धार्थानिव तान् मूर्ध्नि करिष्ये सिद्धिहेतवे ॥३९॥ इत्यमानोऽवलद् यावज्झानेनापि स तत्क्षणात् । समानशीलयोः सख्यमित्यमानेन सस्वजे ॥४०॥ दिवि दुन्दुभयो नेदुरासेदुः पुष्पवृष्टयः । प्रापुस्तं च तदा । भक्तिभासुरा वन्दितुं सुराः ॥४१॥ अथैषसुरसार्थेन स्तूयमानो मुनीश्वरः । जगाम देशनाधाम युगादिजगदीशितुः ॥४२॥ प्रभुं प्रदक्षिणीकृत्य गत्वा केवलिपर्षदि । केवली निषसादोडुमण्डले सितरश्मिवत् ॥४३॥ अन्यदा समवासर्षीदष्टापदगिरौ विभुः । समं समीयतुश्चात्र भरतेश्वर-वासवौ ॥४४॥ देशनान्ते ततश्चक्री बन्धूनालोक्य वत्सलः । तेषां भोगविभागाय जिनराजं व्यजिज्ञपत् ॥४५॥