________________
[५५
गुणानुमोदनाद्वारे भरतकथा]
भरतो विलपन्नेवममात्यैरित्यबोध्यत । नाथ ! बाहुबलिर्नाऽथ वक्तासौ निश्चितव्रतः ॥१०॥ इति तद्वचनैश्चक्री जानन् बान्धवनिश्चयम् । उन्मुखः साश्रुदृक् पादन्यस्तहस्तोऽवदन् पुनः ॥११॥ न चेद् दास्यसि तद् मा दा वाचं वाचंयमोत्तम ! । प्रसाददृष्टिदानेऽपि किं कापि स्याद् व्रतक्षितिः ? ॥१२॥ अथ दृष्ट्वा मुनीन्द्रेणसुधावृष्ट्येव किञ्चन । भूभृत् संभावितः सोऽयं जातरोमाङ्करोऽभवत् ॥१३॥ ततो बाहुबलेः पादौ प्रक्षाल्याश्रुजलप्लवैः । धम्मिल्लेन च संमार्ण्य निर्ययौ भरतेश्वरः ॥१४॥ अथ सोमयशा बाहुबलेः सूनुरनूनरुक् । स्वयं तक्षशिलाराज्ये भरतेन न्यषिच्यत ॥१५॥ ततः सकटक: कुर्वञ्जलस्थलविपर्ययम् । ययावयोध्यामध्यास्त चक्र मप्यायुधालयम् ॥१६।। चतुःषष्टिः सहस्राणि तस्यासन् शासितुः प्रियाः । द्वात्रिंशच्च सहस्रा भूभुजो मुकुटवर्धनाः ॥१७॥ प्रत्येकं च रथाश्वेभं लक्षाश्चतुरशीतयः । षट्पञ्चाशत् कोटयश्चाभूवंस्तस्य पदातयः ॥१८॥ निधयो नव रत्नानि चतुर्दश च जज्ञिरे । तस्य विश्वजयस्फातिसुभगङ्करणौजसः ॥१९॥ अनन्यशासनामब्धिमेखलामखिलामपि । स शशास महीमेतामहीनभुजविक्रमः ॥२०॥ इतश्च भगवान् बाहुबलिः कलितनिश्चयः । तस्थौ स्तम्भमिवारोप्य जेतुमान्तरवैरिणः ॥२१॥