________________
५४]
[विवेकमञ्जरी देवाः के वा न सेवालुलदलिकलितस्फीतसंगीतबन्धां गन्धाम्भ:पुष्पवृष्टिं विदधुरिह सुनन्दासुतस्योपरिष्टात् ? ॥१५०॥
॥ इति भरतभूषणानामनि महाकाव्ये तृतीयः सर्गः ॥
10
$$ तं तथाविधमालोक्य बान्धवं बाष्पमुगिरन् ।
विषण्णकर्मणा स्वेन चक्री चेतस्यचिन्तयत् ॥१॥ धिग धिग् मे चक्रवर्तित्वं बन्धुभिर्विरहो यतः । फलवत्त्वं मधूकद्रोः पत्रद्रोहि स्तवीति कः ? ॥२॥ धुनबन्धुरहं निन्द्यः कालकुक्कुटयोरपि।। यौ ग्रासमुपभुञ्जाते सममेव स्वबन्धुभिः ॥३॥ स्वपक्षमद्विषंस्तेजस्व्यपि राजति नान्यथा । सूर्याचन्द्रमसोश्चन्द्र एव राजा ग्रहेषु यत् ॥४॥ ध्यात्वेति चिरमध्यात्मबन्धुरं बन्धुमात्मनः । निपत्य पदयोश्चकी निजगाद सगद्गम् ॥५॥ भ्रातस्तातसुतोऽसि त्वं नैवाहमधमाधमः । वध्येऽपि मयि यः कुर्वन् कृपां शममशिश्रियः ।।६।। हतकोऽहं पुरा त्यक्तः समग्रैरपि बन्धुभिः । त्यस्त्वमपि मामेकाकिनं सम्प्रति मा कृथाः ॥७॥ तातराज्यमिदं ताततुल्यस्त्वं पातुमर्हसि । चक्रवर्त्यपि वर्तिष्ये तवाहं दासलेशवत् ॥८॥ तात ! तात ! स्वकर्मानुशयाशनिहविर्भुजा । मह्यं प्रदह्यमानाय देहि वागमृतच्छटाम् ॥९॥
15
20