SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे भरतकथा] अनुजस्य वधाय तत्क्षणात् त्रिदशांस्त्रासयदम्बरस्थितान् । अविशङ्कमसौ मुमोच तत् प्रलयाम्भोद इवाशनिं नदन् ॥१४२॥ तदनेकभटासिपट्टिसप्रकरप्रासनिरुद्धमप्यथ । बहलीपतिमापतद् भृशं भरतस्येव जयाशयोऽङ्गसन्(ग्रसत्) ॥१४३।। स्वकुले प्रभवेद् न चक्रमित्यभितो बाहुबलिं परीय तत् । भरतेशकरे पुनर्ययौ निशि पक्षीव कुलाय पादपे ॥१४४॥ अयमेष करोमि भस्मसात् सहसादद्य सचक्रमप्यमुम् । अथ बाहुबलिः क्रुधा करं समुदस्याचलदग्रजं प्रति ॥१४५।। गत एव निकेतनान्तिकं हहहाऽसौ प्रतिचक्रवर्त्यसौ । इति नागमनुष्यनाकिना तुमुलो व्योमतलं व्यगाहत ॥१४६।। अत्रान्तरे विलसितोरुविवेकसूरः, शाम्यत्तमा विमृशति स्म स वीरमानी । क्रोधादिभिर्विजितमेनमिहाग्रजं मे जेतुं हहा ! विफल एव मनोऽभिलाषः ॥१४७॥ एतान् विश्वत्रयविजयिनो यद्यहं जेतुमीशे, तत्तातस्य त्रिभुवनगुरोरस्मि तस्याङ्गजन्मा । इत्युन्मीलन्मतिरयमपाकर्तुमन्तद्विषन्तं, तूलानीवोदखनदखिलान् पाणिना तेन केशान् ॥१४८॥ वन्द्याः केवलिनः कथं नु लघवः स्वे बन्धवस्ते मया, तत्तेषां समतामवाप्य नियतं याम्यामि तातान्तिकम् । इत्यालोच्य समाधिसाधितशमानन्दः सुनन्दाङ्गजः, सञ्ज्ञानं प्रतिपालयन्निव समागच्छत् तदोज़ स्थितः ॥१४९।। सानन्दं वादयन्तस्तदनु तनुमतां ध्वस्तकल्पान्तशङ्क, शङ्कणत्रासकृत्तद्ध्वनिभिरभिनभो दुन्दुभीरिन्दुभीमाः । 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy