SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५२] [ विवेकमञ्जरी अथ तक्षशिलापतिर्मृगाधिपतिध्वानमसूत्रयत् तथा । चलितं धरया यथाऽचलैः पतितं दिक्करिभिश्च मूच्छितम् ॥१३०॥ प्रलयाम्बुदशब्दबन्धुना परितः क्षुब्धपयोधिनाऽमुना । भरतः पुनरेव निर्जितो वचसा बाहुबलेर्बलीयसा ॥१३१॥ अथ मुष्टिरणाय सोद्यमावपसृत्याशु नराधिपाविमौ । भयदो भुवनेऽप्यधावतां करमुत्याट्य वनद्विपाविव ॥१३२॥ अनयोः पदपीडितस्थिराभरपेषेण फणः सहस्रधा । फणिनः स्फुटितः, करेर्मुखं विनतं, सङ्कुचितश्च कच्छपः ॥१३३॥ भरतस्य करप्रहारतः पुरतस्तक्षशिलानरेश्वरः । क्षणमेकममूर्च्छदन्तरा जयलाभौपयिकं मृशन्निव ॥१३४॥ अथ तामवधूय तत्कराहतिमूर्च्छा, भरतं स मुष्टिना । निजघान तथाऽपतद् यथा सममेषोऽथ भटाश्रुबिन्दुभिः ॥ १३५ ॥ अथ चन्दनवारिसेकतः प्रगुणं बाहुबलिर्व्यधादमुम् । हृदि मत्सरपूरितेऽप्यहो ! न हि नाभिः प्रतिबन्धचौरिका ॥ १३६ ॥ अथ संभृतदण्डसङ्गरार्थितया निर्मितसङ्गराविमौ । दृढदण्डकरावधावतां जगतां त्रासकरौ यमाविव ॥ १३७॥ बहलीपतिराशु ताडितः शिरसि श्रीभरतेन दण्डतः । घनघातितवज्रवत् तदाऽबुडदाजानु वसुन्धरोपरि ॥१३८॥ अथ पङ्किलतः किल क्षमातलतः स्वावकृष्य च क्रमौ I भरतं दृढदण्डघाततस्तरसाऽऽकण्ठमसावमज्जयत् ॥१३९॥ नृपरत्नमथैष रोहणादिव 'हा दैव ! ' गिराङ्किताननैः । प्रविदार्य महीमकृष्यताऽऽयतकुद्दालकरैः स किङ्करैः ॥१४०॥ किमु नाहमिलातले त्वयं बत चक्रीति विषादमीयुषः । भरतस्य करे समाययावथ चक्रं ज्वलदर्कबिम्बवत् ॥१४१॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy