________________
[५१
10
गुणानुमोदनाद्वारे भरतकथा]
भरतेश्वरचक्रमेकतो भवदीयप्रणतेः समीहया । न गुहामिव केशरी विशत्यकृतार्थं ध्रुवमायुधालयम् ॥११८।। विनये वयमन्यतस्तवातिशयं वीक्ष्य न वक्तुमीश्महे । पुनरेकमिहार्थयामहे न हि योद्धव्यमसुव्यथायुधैः ॥११९।। नयनादिरणैर्बलाबलं प्रसमीक्ष्याशु जयव्यवस्थितिः । युवयोः प्रविधास्यते, ध्रुवं वयमेवात्र भवाम साक्षिणः ॥१२०॥ प्रतिपन्नवतीदमत्रते त्रिदशाः श्रीऋषभाज्ञया भटान् । विनिषिध्य युधः शुचिं व्यधुर्भुवमङ्गाङ्गिरणार्थमेतयोः ॥१२१।। उभयोरपि सैन्ययोर्भटा विनिषिद्धाः प्रभुपूरुषैरपि । समरादवलम्भरोषिता इव मुष्टा इव लज्जना इव ॥१२२।। अथ मङ्क्षु मिथो जयैषिणौ स्मयपाथोधितमीशमीयतुः । नभसीव विभाविभावरीरमणौ तौ रणमार्षभी नृपौ ॥१२३॥ स्फुटदृष्टिविवादसादरौ चिरमेतौ समतिष्ठतां स्थिरौ । घटिताविव चित्रिताविवाहितयोगाविव विस्मिताविव ॥१२४॥ अतिकौतुकतोऽनिमेषिभिस्तदनुध्यानवशादिवाथ तौ । अमरैर्नभसि स्थितै विस्थितिविद्भिश्च नरैर्निरीक्षितौ ॥१२५॥ अथ बाहुबले रवेरिव प्रसरद्दीधितिदर्शनार्दिते । भरतः स्वदृशौ निमीलयन् विजयायाऽऽदित तोयमश्रुभिः ॥१२६।। अवितर्कमहो जितं जितं बलिना बाहुबलिक्षितीन्दुना । नभसीति दिवौकसो व्यधुः स्तुतिघोषं जयसाक्षिणस्तदा ॥१२७॥ अथ दृष्टिजितेन चक्रिणा सह तेनासहनीयविक्रमः । सुरसार्थसमक्षमाधित क्षितिपस्ताक्षशिलः स्वमाहवम् ॥१२८॥ भरतस्य मृगेन्द्रगर्जितध्वनितेन प्रसभं विसर्पता । फणिनां च नृणां च नाकिनामपि बाधिर्यमजायत क्षणाम् ॥१२९।।