________________
५०]
[विवेकमञ्जरी ननु दृष्टिवच:सुसृष्टिदोविलसन्मुष्टिसुयष्टियुद्धतः । युवयोरमरैर्बलाबलं परिभाव्यं, निशितैः किमायुधैः ? ॥१०६।। इति भूमिभृता प्रतिश्रुते वचने बाहुबलिं ययुः सुराः । समुदीर्य जयाशिषं पुरस्तमभाषन्त गिरा सुधाकिरा ॥१०७॥ नयनिष्ठ ! तवैष बान्धवः प्रथमः सत्क्रियते न किं त्वया ? । भरतं प्रति देव ! सम्प्रति प्रधनारम्भमपोढुमर्हसि ॥१०८॥ ऋषभस्य विभोर्न संमता नियतं तावदमी क्रुधादयः । तदमीषु तदङ्गजस्य ते परिपोषः किमयं बतोचितः ? ॥१०९॥ नतमात्रतया तवैष यः परितोषं भजते किलाग्रजः । प्रणिपत्य तमर्हमानतेः कुरुषे किं न महीमिहात्मसात् ? ॥११०॥ अथ बाहुबलिर्गभीरया गिरया प्राह स तानभी रयात् । कथमित्थमहो ! भवादृशैरपरिज्ञातकथैरिवोच्यते ? ॥१११।। बत बन्धुतया ममान्तिकाद् यदि सत्कारमयं समीहते । उपपन्नमिदं तदेव यद् मम तातप्रतिमोऽयमग्रजः ॥११२।। जितकाशितया परं महस्वितिया मामवकृत्य नामयेत् । न तदेतदहं सहे, ‘सतां धनमेकं भुवि मान एव यत्' ॥११३।। न विनष्टममुष्य किञ्चन स्फुटमद्यापि महौजसोऽथवा । अपसर्पतु सङ्गरादसावहमप्येष निवृत्त एव तत् ॥११४।। निजशासनमन्यमेदिनीपतिसामान्यचिकीरसौ मयि । समुपेत्य गिराविवास्फलन् रदभङ्गं करटीव लप्स्यते ॥११५।। न भवेऽत्र भवे परत्र च प्रभुरन्यो मम तातमन्तरा । अभिगम्य रुचामधीश्वरं न विधीयेत बुधैः प्रदीपकः ॥११६॥ अथ बाहुबलिं जगुः सुरा जगतीमण्डलमौलिमण्डन ! । विशदापि सदापि शेमुपी न हि कार्ये भवतीह संमुखी ॥११७॥
15
20