________________
[४९
10
गुणानुमोदनाद्वारे भरतकथा]
अथ बाहुबलिचमूचरा भरताधीशपताकिनीभटान् । तरणेः किरणाग्रपल्लवास्तिमिराणीव तिरोदधुः क्षणात् ॥९४॥ अथ भारतभूमिवासवः स्वयमाटोपमवाप कोपजम् । प्रचचाल युधे चलच्चमूभरनिष्पीडितपन्नगेश्वरः ॥९५।। अवधार्य निजार्यमात्मना विलसत्सङ्गकर्मसङ्गरम् । समकालमहर्षहर्षयोरभवद् बाहुबलिः पदं तदा ॥९६।। अथ सोऽपि महाभुजः स्वयं रणदीक्षामधिगम्य रंहसा ।
उदयादिमिवार्यमा क्षमापतिरारोहदिभेन्द्रमुच्चकेः ॥१७॥ $ स्वयमेव महाभुजाविमौ समरायातिनिरीक्ष्य सोद्यमौ ।
धुसदोऽपि चकम्पिरे तदा प्रसभं हन्त ! युगान्तशङ्कया ॥९८।। भरतं समुपेत्य रंहसा वितरन्तोऽस्य जयाशिषं सुराः । इदमूचुरथौचितीचितं रचितप्राञ्जलयः प्रशान्तये ॥९९।। तव साधयतोऽखिलामिलां यदि कश्चिद् न हि संमुखोऽभवत् । भुजखर्जुभिदे स्वबन्धुना रणकामः किमु लज्जसे न तत् ? ॥१००॥ . अथ भूपतिराह भारतस्रिदशान् युक्तमिदं भवद्वचः । अधुना रणकारणं पुनर्बत जानीथ न यूयमावयोः ॥१०॥ भुजखर्जुभिदा निबन्धनं न युधः किन्तु रथाङ्गमङ्ग ! मे। न हि शस्त्रगृहे विशत्यदः शिशुरत्यन्तशठो यथा मठे ॥१०२॥ अचिरात् तदनुप्रविश्य मामिदमप्यस्त्रगृहं प्रवेश्य च । सकलस्य किलास्य काश्यपीवलयस्यास्तु ममानुजः पतिः ॥१०३॥ 20 बत बोधयताऽमुना मनाम् वचसा बाहुबलिं महाबलम् । - यदि युद्धनिषेधहेतवे भवतामस्ति मनस्युपक्रमः ॥१०४।।
अथ ते पुनरुचुरेष चेद् न हि बुध्येत तथापि न त्वया । रणकर्म विधेयमायुधैः शपथाः श्रीऋषभप्रभोरिह ॥१०५॥
15