________________
5
10
15
20
४८]
[ विवेकमञ्जरी
उभयोरपि योद्धुकामयोरुदयास्ताद्रिगतौ खगात्रिजौ । क्षणमार्षभिसैन्ययोस्तयोः करदण्डाद् दधतुस्तदाऽन्तरा ॥८२॥ $$ अथ भक्तिभरेण तावुभावृषभस्वामिनमार्षभी नृपौ । परिपूज्य रणोद्यताववीवदतां दुन्दुभिमात्मसैन्ययोः ॥ ८३॥ रणदुन्दुभिनादसञ्ज्ञया समनह्यन्त तयोर्बलान्यथं । अमिलंश्च युगान्तमत्तयोरिव पाथांसि मिथः समुद्रयोः ॥८४॥ सुभटैः सुभटा रथै रथास्तुरगैश्चापि तुरङ्गमास्तदा । करिभिः करिणो रणोत्सवं किल तुल्यप्रतिपन्थिनो व्यधुः ॥८५॥ प्रथमं रणतूर्यगर्जितैस्तदनु क्षोणिरजोभिरुद्धतैः । शरधोरणिभिस्ततोऽपि च प्रतिलेशं पिदधे नभस्तदा ॥८६॥ द्विषतां निधनाय धन्विभिः प्रहिताः प्रोतधृतोडुदीपकाः । निजवध्यजनं रजस्तमस्यभिपश्यन्त इवेषवोऽभ्रमन् ॥८७॥ सुभटक्षतत्रवन्तिका विलसन्त्यो वसुधातले बभुः । रणरेणुतमोऽन्धलैः शरैरवलूना इव सूर्यरश्मयः ॥ ८८॥ प्रहतेभरदाशनस्त्रुटिं समवाप्योच्छलिता भटासयः । रणरेणुपयोदमण्डले दधुरुदण्डतडिल्लतायितम् ॥ ८९ ॥ द्विषदाहितकुन्तयष्टिभिः करिणः शल्यकशूलिता बभुः । उपरूढकुमारिकौषधीसमुदण्डप्रचिता इवाद्रयः ॥९०॥ हतयुग्यहयाः कथञ्चनाप्यतिदूरे रथिनः पुरः स्थितान् । तरलास्रनदीतद्रथाः समुपेत्यात्मरिपून् न्यपातयन् ॥९१॥ कंरभद्वयसासृगापगातरदुत्तुङ्गतरङ्गशालिनाम् । गजमौलिगतैर्निषादिभिः समकक्षाऽजनि सादिनामपि ॥ ९२ ॥
विकरालकरांह्रिपङ्कजे युधि कीलालचराचरे तदा । भटमस्तकनालिकेरके यमदूता निभृतोत्सवं व्यधुः ॥९३॥