SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [४७ गुणानुमोदनाद्वारे भरतकथा] $$ अथ बाहुबलिर्महाबलस्तरसाऽऽकर्ण्य तदा तदागमम् । जयडिण्डिमघोषडम्बरैरभियानाय बलान्यतत्वरत् ॥७०॥ अतिवीर्यतया चतुर्भुजश्चतुरम्भोधितटीषु विश्रुतः । अचलश्चतुरङ्गसेनया स चतस्रोऽपि दिशो विलोडयन् ॥७१॥ प्रविशन्तु भृशं कुहाप्यमी रिपवो बाहुबलेः प्रणश्य मा । शुषिराणि रजोभिरुद्धतैस्तिरयामासुरितीव वाजिनः ॥७२॥ करिकेतुसमन्वितं रजःपटलं व्योमतले तदा बभौ । फणिलोकयुता मही महाबलसंमर्दभयादिवोद्गता ॥७३॥ द्विषतां वदनानि तरूधूनयनानीह विहाय सर्वतः । तृणमम्बु च नान्यतो नरैर्ददृशे बाहुबलेः प्रयाणके ॥७४।। अथ चक्रिचमूपकण्टभूवलये बाहुबलेः पताकिनी । समुपेत्य निवासमग्रहीद् विगृहीतेरिव मूलमात्रिका ॥७॥ अनयोर्जगदादिवीरयोः समरः प्रातरहो भविष्यति । इति वक्तुमिवागतस्तदा वरुणास्यारुणसारथिर्ययौ ॥७६।। व्रजतोऽस्तमहपतेर्महः पटलैः पाटलितानि तान्यथ । कटकान्युभयान्यपि क्रुधा ज्वलितानीव मिथो विरेजिरे ॥७७|| परिसंवृत्तवत्यहो मह: पटमास्फोट्य दिवातनं रवौ । तमसोच्छलितं पुराचलबलमालारजसेव तद्युता ॥७८॥ उडुभिः सममिन्दुरुद्ययौ परितो द्रष्टुमिवाथ कौतुकात् । असिजागरणानि दोभृतामुभयोरार्षभिसैन्ययोस्तयोः ॥७९।। असिजागरवाद्यनि:स्वनश्रुतिवित्रस्तमिवैणमीक्षितुम् । निरगाद् मृगलाञ्छनो निशाविगमेऽस्ताचलचूलिकावनम् ॥८०॥ सकलां रजनी स्थितः क्वचिद् निजमन्त्राणि निमन्त्रयन्निव। रणवीक्षणहेतवे तयोरुदयाद्रावधिरूढवान् रविः ॥८१॥ 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy