SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४६] [विवेकमञ्जरी मनसासमरंहसा व्रजन् बहलीदेशमतीय कृच्छ्रतः । निजनायकदेशमाप्य च स्वमयं मानितवान् पुनर्नवम् ॥५८॥ अथ बाहुबलेर्भयाकुलान् परतोऽप्युत्तरकोशलानयम् । रचयन् निजरंहसाऽऽगतो भरतायेति चरो व्यजिज्ञपत् ॥५९॥ यदि नाथ ! कथञ्चिञ्चलैरपि धीयेत सहस्रदीधितिः । वनवह्निरपहृतेन्धनो यदि गृह्येत च मुष्टिना क्वचित् ॥६०॥ न तथापि तवानुजस्तृणीकृतविश्वत्रितयः स्वदोर्बलात् । विगृ(ग्र)हीतुमहो महस्विभिः परिशक्येत सुरासुरैरपि ॥६१।। समरैकरतेरमुष्य दोर्ध्वनिकोलाहलकाहलारवैः । श्रुतिमार्गमुपैति नापरः सुभटः स्वर्गिनरासुरेष्वपि ॥६२॥ वरिवस्यति मामयं पुरेत्यथ कुर्या मनसापि मा भ्रमम् । भरतोऽप्यभिनामनक्रियातरलो यस्त्रपया निवार्यते ।।३।। इति मझुनिशम्य चारतो भरतः क्षोणिपतिः क्रुधा ज्वलन् । अभियातिमभि प्रयाणकाहतढक्काभिरवोचदुत्तरम् ॥६४|| रथचीत्कृतिवाजिहेषितैः करभक्रन्दितहस्तिबृंहितैः । पटुचेटरवैर्मिथस्तदा निनदाद्वैतमभूत् प्रयाणके ॥६५।। करभैः क्व च वाजिभिः क्व च द्विरदै: क्वापि रथैरथ क्व च । तदनेहसि पादचारिणां निगमा दुर्गमतां प्रपेदिरे ॥६६॥ परितोऽपि तदाऽश्वदारितावनिधृलीमयधूमधोरणेः । भरतेशमहोहविर्भुजः किल कीलाः करिकेतवो बभुः ॥६७|| क्षितिरेणुतमस्सु दुन्दुभिप्रतिनादैः परितोऽपि यान्त्यपि । कटकानि बहुत्वतोऽत्यजन्नवियोगं भरताग्रसेनया ॥६८॥ अविलम्बकृतैः प्रयाणकैर्निजदेशं व्यतिलय कैश्चन । भरताधिपतिः समासदद् बहलीमण्डलमेदिनीमुखम् ॥६९॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy