SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ [४५ गुणानुमोदनाद्वारे भरतकथा] मम दूत ! युगादितीर्थकृद् वरिवस्यः प्रभुरेक एव नु । किमनेन स लप्स्यते यदि प्रणति ज्येष्ठतयाऽन्यथा तु न ॥४६॥ यदि चैष महोऽभिनाथते यदि मत्तोऽपि तवावनीपतिः। निशि दीपचिकी: फणीशितुः शिरसस्तन्मणिमात्तुमीहते ॥४७॥ विजिगीषुमतेषु राजसु क्व नु सम्बन्धकथोपयुज्यते ।। इति ते वचनं वृथा, यतो मयि सत्येष कुतो विजृम्भते ? ॥४८॥ ज्वलनेऽत्र हविर्भुजीव ये शलभत्वं कलयन्ति ते परे । अहमस्य तु शान्तये शरावलिवर्षी सधनुर्घनाधनः ॥४९॥ भुवनाधिपसेवितक्रमः सविता यस्य युगादितीर्थकृत् । भुजविक्रमतस्तृणीकृतत्रिजगत्कोऽनुज एष मद्विधः ॥५०॥ स सुरैरसुरैरनारतं वरिवस्यः कियदेतदभ्यधाः ? । इति दूत ! वदास्य दास्यकृत् ! यदसामान्यपराक्रमो वृथा ॥५१॥ युग्मम् ॥ . तदमुष्य न सेवने त्रपा करुणा किन्तु ममाद्भुता हृदि । अवलोक्य यदेष मां पुरा खुरलीकेलिजितं ह्युपैष्यति ॥५२॥ उदलालि पुरा ततो दिवः स पतन् कन्दुकवद् धृतो मया । तदमुष्य किमद्य विस्मृतं स्मयमानस्य चटुज्ञचाटुभिः ? ॥५३॥ अथवा तव दूत ! भूपतिः स्मयते चक्रबलेन सम्प्रति । तदितोऽपि वहत्वहंयुतां शकटं चक्रयुगं बिभर्ति यत् ॥५४॥ व्रज तत् त्वमहोतिरंहसा स समायातु तव स्वयं विभुः । करवाणि यथा स्वसायकैः स्मयगम्भीरगडोश्चिकित्सनाम् ॥५५॥ 20 समयः स सभागृहादथार्षभिदूतस्त्वरितं विनिर्ययौ । अरुणोक्षणमीक्षितश्चिरं बलिभिर्बाहुबलेः पदातिभिः ॥५६॥ विविधायुधभीषणान् भटान् यमदूतप्रतिमान् विलोकयन् । नृपतेः सदनाद् निरीय तन्नगरीतोऽपि निरीयते स्म सः ॥५७॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy