SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४४] [विवेकमञ्जरी मम बन्धुरसाविति भ्रमादभयस्त्वं क्वचनापि मा स्म भूः । विजिगीषुमतेषु राजसु क्व नु सम्बन्धकथोपयुज्यते ? ॥३४॥ अथवा यदि वीरमानिताग्रहिलो वीरममुं न मन्यसे । ज्वलनेऽत्र हर्विभुजीव तल्लभसे त्वं शलभत्वमञ्जसा ॥३५।। अथ जीवितराज्ययोः स्पृहा यदि काचित् तव विद्यते हृदि । भरतेश्वरशासनं तदा परभूपैरिव मूर्ध्नि धार्यताम् ॥३६॥ ननु यत्र विधीयतेऽन्वहं वरिवस्या त्रिदशासुरैरपि । तदिह प्रणति वितन्वतो नरमात्रस्य तवास्तु का त्रपा ? ॥३७ 88 इति दूतगिरामनन्तरं स्वभुजौ बाहुबलिविलोकयन् । अधरद्युतिकैतवात् क्रुधारुणितां वाचमुवाच निश्चलः ॥३८॥ अयि दूत ! स मे समागमं यदि बन्धुः प्रथमः समीहते । उपपन्नमिदं यदेष नः परिपूज्यः खलु तातसंनिभः ॥३९॥ इदमप्यतिसुन्दरं तव प्रभुराह्वास्त यदेष बान्धवान् । महतां न हि कृत्यवस्तुषु स्मृतिवैकल्यमिहोपजायते ॥४०॥ बत तातपदानुगामिषु स्वयमेतेषु तदीयसम्पदः । यदयं गिलति स्म बान्धवः प्रतिबन्धोऽस्य स दूत ! नूतनः ॥४१॥ भरतक्षितिरूपमामिषं यदवाप्यैष तिरोदधेऽनुजान् । तदहं भवदीयभूपतेरिह गृद्धस्य च वेद्मि नान्तरम् ॥४२॥ किल भूदिह मा स्म निर्जितो लघुभिर्येष्ठ इति प्रजारवः यदि तातमशिश्रियन्नमी जितकाशी किमयं तव प्रभुः ? ॥४३। सकलामवजित्य मेदिनीमवनीशस्तव मां विरोधयन् । बहुगर्भितशस्यमात्मनः कृषिकर्माऽद्य मलीकरोत्ययम् ॥४४॥ अयि दूत ! जनो विभाषते बत मय्येव तव प्रभोर्न किम् ? । लघुबान्धववैभवानि योऽग्रसदुद्वान्तमिवाशु कुक्कुरः ॥४५॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy