________________
गुणानुमोदनाद्वारे भरतकथा ]
ननु तस्य दिगन्तपार्थिवैः सममाज्ञैकतमाप्यनेकशः । शिरसा नियतेव जन्मिभिर्भृशमिच्छा नियतेरिवोह्यते ॥२२॥ अविबाधितवृत्तिभिर्मिथः पुरुषार्थैस्त्रिभिरेष सेव्यते । भुवनैरिव हेमभूधरो दिवसः सान्ध्यविभागकैरिव ॥२३॥ अपरैः परितो नृपैः परः शतसङ्ख्यैः परिषेवितोऽप्ययम् । अनुजानतिदूरगान् निजानविपश्यन् न कदापि मोदते ॥२४॥ जगतीमवजित्य भारतीं भरतस्यात्मपुरीमुपेयुषः । नृपराजपदोत्सवं नृपाः समुदो द्वादशवार्षिकं व्यधुः ॥२५॥ अवबुध्य निजाननागताननुजांस्तत्र महे महीयसि । अयमेकनृपः स्वपूरुषान् द्रुतमाह्वातुममूननोदयत् ॥२६॥ अथ ते तु महाधियोऽन्तरा सविकल्पां परिकल्प्य किञ्चन । बत तातपदद्वयान्तिके द्रुतमेत्य व्रतमेव भेजिरे ||२७||
तदपारवियोगविक्लवव्यसनावर्तविवर्तगर्ततः ।
तदमुं तव देव ! साम्प्रतं द्रुतमुद्धर्तुमुपेत्य साम्प्रतम् ॥२८॥ ननु यद्यपि तत्र बन्धुताविवशस्त्वं न पुरा समागमः । परिवक्ति तथापि तेऽन्यथा सहजादेव दुराशयो जनः ॥२९॥ महतोऽप्यपथे यथा तथाप्युपरागादपचीयते महः | तपनो हि तुलाविशुद्धिमानपि कन्यां गत इत्यतादृशः ॥३०॥ तदहं नृप ! वच्मि ते हितं भरताधीश्वरलोचनाञ्चलैः । जनवादरज:प्रमार्जनं कुरु सम्प्रत्यपि नापराध्यसि ॥३१॥ स्वयमेव सदाऽनुजीविनामसमानार्थविसर्जनापरः । अभिमानधनप्रियस्तव प्रणतेर्नान्यदयं समीहते ||३२|| द्रविणाय न किन्तु तेजसे किल धीराः कलयन्ति विक्रमम् । विनिहन्ति पतङ्गिपुङ्गवः फणिनः किं फणरत्नवाञ्छ्या ? ॥३३॥
[ ४३
5
10
15
20