________________
४०]
[विवेकमञ्जरी "श्रुत्वेत्यमी स्वामिवचः प्रबुद्धां शुद्धाशयाः संयममाद्रियन्त । विवृत्य दूता अपि विस्मयेन स्वस्वामिने तत् प्रथयाम्बूभूवुः ॥१०२॥ प्राज्यानि राज्यानि ततः समृद्ध्याऽखर्वाणि सर्वारण्यपि सार्वभौमः । स जनसे वह्निरिवेन्धनानि भूयांसि भोज्यानि च भस्मकीव" ॥१०३।। अथैकदा दिक्पतिमौलिमाल्यमधूदकस्नातपदारविन्दम् । संसद्गतं श्रीभरतं सुषेणः सेनापतिः प्राञ्जलिरित्युवाच ॥१०४|| स्वामिन्नसामान्यमहःप्रतिष्ठानिकेतकाष्ठाविजयेऽपि क्लृप्ते । नैतद् विशत्यायुधवेश्म चक्रमद्यापि मत्तः करटीव शालाम् ॥१०५॥ अथावदद् बुद्धिनिधिः सुबुद्धिरमात्यनाथो भरताधिनाथम् । कोऽद्यापि नाथ ! त्वयि विश्वजैत्रे तिष्ठेत पूष्णीव तमिस्रलेशः ? ॥१०६॥ आ ज्ञातमेको न वशंवदोऽस्ति तवैव देव ! प्रथमोऽनु जन्मा। बाह्वोर्बली बाहुबली रसायामसावसामान्यपराक्र मो यत् ।।१०७।। राज्याङ्गसप्ताचिरहो ! महासिविलासिधूमान्धितवैरिवर्गः । अमर्षवायूल्लसितः कथञ्चिदयं दिगन्तानपि दग्धुमीशः ॥१०८।। निस्तेजयित्वापि दिगन्तभर्तृनमुं धरित्रीधरमुच्चश्रृङ्गम् । स्वामिन्ननाक्रम्य तव प्रतापसूरस्य दूरप्रसरः कथं स्यात् ? ॥१०९॥ अण्डीरदोर्दण्डममुं त्वजित्वा दिग्जैत्रयात्राक्रमकैतवेन । त्वयैकराज्याय विभो ! वणिज्याकृतेव देशान्तर एव चक्रे ॥११०।। तत् तुल्यसंबन्धपराक्रमस्ते नोपेक्षितुं युज्यत एव देव ! । आलानदण्डे किमुभौ मदेभौ स्यातां किमेकत्र वने च सिंहौ ? ॥१११॥ अथादितस्त्वं यदि योद्धमीहसे न बान्धवं तं किल बन्धुवत्सलः । तथापि दूतऽस्य मनस्विनीतिभिः परीक्षितुं कश्चिदपि प्रहीयते ॥११२॥ दूताहूतः सामदानादिभिस्त्वां वीरम्मन्यो मन्यते नो यदा तत् । गौरव्योऽपि द्विष्टदन्तीव यन्तुर्देवस्यास्ते स क्षणं शिक्षणीयः ॥११३||
15