________________
गुणानुमोदनाद्वारे भरतकथा ]
[ ४१
इति सचिवचयेन्दोर्मन्त्रमुत्साहकन्दोपममवनिसुधाशुः प्राप्य तस्मादुपांशुः । वचनरचनपूतं शिक्षयित्वाऽथ दूतं तमभि च वसुवेगं प्रैषयत् तार्क्ष्यवेगम् ॥११४॥
॥ इति भरतभूषणनामनि महाकाव्ये द्वितीयः सर्गः ॥
१६ अथ दूतपुमानशोभनैः शकुनैः सोऽध्वनि वारितोऽप्यगात् । निजनाथनियोगकारितापरतन्त्रा हि सदाऽनुजीविनः ॥१॥
व्यतिलङ्घ्य नदीनगावलीनगरग्रामधरां वसुन्धराम् । बहुलं बहुलम्पटैर्भटैर्बहलीदेशमसावथासदत् ॥२॥ सुषमानृपतेरिव स्थलैरथवा क्रीडनगैरिव श्रियः । अनुगोष्ठमहो महोन्नतैः कलितं धान्यकदम्बराशिभिः ||३|| अनुशालिवनं च गोपिकानिवहैरिक्षुतले निषादिभिः । बलिबाहुबलिक्षितीशितुश्चरितोद्गानपरैः परिष्कृतम् ॥४॥ प्रतिशालमनाविलादिकृद्गुणगीतिप्रवणैः सुरीगणैः । कनकाचलतोऽभ्युपागतैरविशून्यद्रुमराजिराजितम् ॥५॥
मणिभूषणकान्तिमञ्जरीवितमिस्रासु तमस्विनीष्वपि । दिवसेष्विव पान्थवाणिनीगणपाणिन्धमवर्त्मधोरणिम् ॥६॥ समुपेत्य सरोजलोचनाद्भुतलावण्यदिदृक्षया दिवः । त्रिदशैरतिशायिभोगतो मुदितैर्द्युपरिहार्य भूतलम् ॥७|| पञ्चभिः कुलकम् ॥ अकृशाद्भुतवैभवान्वितं बहलीदेशमसाववाप्य तम् । स्वमिहैव भवे जवाद् भवान्तरमायातमिवोदमन्यत ॥८॥ अथ तक्षशिलाभिधामसौ वसुधाशेखरशालशोभिताम् । दृढबाहुबलस्य सम्पदा बहुलां बाहुबलेः पुरीमगात् ॥९॥
5
10
15
20