________________
३८]
[विवेकमञ्जरी श्रुत्वाब्दशब्दानिव पञ्चशब्दान् नृत्यद्भिरुतम्भितपिच्छभारैः । तदा मयूरैस्तरवोऽपि चक्रधरा इवासन् भरतानुषङ्गात् ॥७८॥ पुरीमथप्राविशदेष योषिद्विक्षिप्तलाजैरवकीर्यमाणः । दिग्विस्तृतैरिन्दुरिवोडुभि वनीमिवेभश्च लताप्रसूनैः ॥७९॥ - स माङ्गलिक्यान् प्रतिमञ्चमुच्चैर्गृह्णन् विधीन् पौरविधीयमानान् । पूर्वाचलं भानुरिवात्मसौधमसौ धरावज्रधरो जगाम ॥८०॥ अभ्येत्य महोत्सवेन विधीयमानं विधिवद् नरेन्द्रैः । स चक्रवर्तित्वपदाभिषेकं भेजे भृशं द्वादश वत्सराणि ॥८१॥ कृशां शशाङ्कस्य कलामिवाथ स सुन्दरी सादरमीक्षमाणः । तत्काय॑हेतूनि (?) नियोगिनः स्वान्य(न्यं) पृच्छतेऽपीति शशंसुरस्मै ॥८२॥ स्वामिन् ! भवद्दिग्विजयादिघस्रात् षष्टिं सहस्राणि समाः समाघात् । व्रतग्रहाभिग्रहसंचयाचामाम्लान्यसौ म्लानिकराण्यघस्य ॥८३॥ श्रुत्वेति भूमीपतिना विसृष्टा नष्टापदष्टापदपर्वतेऽथ ।
युगादिदेवस्य पितुः करेण जग्राह दीक्षां गृहनिःस्पृहा सा ॥८४॥ 8 अनागतान् द्वादशवार्षके साम्राज्याभिषेके भरतेश्वरोऽथ ।
आह्नातुमष्टानवतिं निजानुभुवः प्रभूतान् प्रजिघाय दूतान् ॥८५।। राज्यानि कर्तुं यदि वोऽस्ति वाच्छा तदेत्य नाथं भरतं श्रयध्वम् । निशम्य दूतोदितमित्यमी त्वरूक्षाक्षरं मक्षु बभाषिरेऽदः ॥८६॥ अस्माकमस्यापि भवत्प्रभोर्भोः ! प्रादायि तातेन विभज्य राज्यम् । अस्मच्छकाशात् स किमिच्छतीदमाच्छेत्तुमच्छेतरलोभपुष्टः ।।८७॥ नास्माकमस्मादधिकेन कार्यं स्वं रक्षितुं च स्वयमेव शक्ताः । तद् दूत ! भर्ता भवतामयोगक्षेमङ्करः स्यात् कथमेष नाथः ? ॥८८|| अयं च यद्यस्ति समस्तवीरावलीबलीयानऽनलीकमेव । तदेतु युद्धेन वयं पराम्बास्तस्यैव तातस्य यतः सुताः स्मः ॥८९॥
15