________________
[३७
गुणानुमोदनाद्वारे भरतकथा]
नाभेयजन्मन्निदमावयोस्त्वं क्षमापते ! दुर्ललितं क्षमस्व । सतां हि भूयानपि गाढरूढाटोपः प्रणामावधिरेव कोपः ॥६६॥ अथ प्रसन्नस्य नमिश्चिरत्नान्यमुष्य रत्नान्युपदीचकार । स्त्रीरत्नमेकं विनमिः सुभद्रां पुत्री तु मूर्तामिव चक्रिलक्ष्मीम् ॥६७॥ तुष्टाशयेनार्षभिणा विसृष्टाविमौ विशिष्टाशयकौ स्वराज्ये । सुतौ निवेश्य व्रतमादिषातां युगादिनाथस्य विभोः समीपे ॥६८|| चक्री पुनः सिन्धुवदात्मवश्यां विधाय गङ्गामनुरागसङ्गात् । समासहस्रं बुभुजे सुषेणजितैर्नदीयोत्तरतीरदेशः ॥६९॥ खण्डप्रपाताख्यगुहाधिनाथं प्राग्वद् व्यजैषीदथ नाट्यमालम् । गुहामतिक्रम्य च तां निवास्य गङ्गातटे प्राप निधीन् नवापि ॥७०॥ जित्वा सुषेणेन जयैकतागीभागीरथीदक्षिणनिष्कुटं सः । मृगाधिपः स्वीयगुहामिवैकभूमानयोध्यां प्रति संचचाल ॥७१।। अस्मत्प्रभोस्तेजसि जृम्भमाणो तमोपहे कोऽयमनात्मवेदी ? | इतीव सद्यस्तिरयाम्बभूवुस्त्विषां पतिं पादरजोभिरश्वाः ॥७२।। करेणवो दानभरेण दत्तच्छटामिवोवीं विदधुस्तदाऽस्य । खलीनखिन्नाननपातिभिश्च फेनैः सपुष्पप्रकारमिवाश्वाः ॥७३॥ हयांहिनिस्तक्षणाकर्षितोर्वी सुखश्रवामात्मभुजप्रशस्तिम् । शृण्वन् भुजङ्गीगणगीयमानामियाय मानी निजराजधानीम् ॥७४।। तदागमे पौरकृतावचूलदुकूलवद्व्योमनि हट्टमार्गे । तन्मञ्चरत्नेषु करं न चक्रे व्यलीकभीत्येव दिवाकरोऽपि ॥७५।। भूपं स्वकान्तप्रतिमल्लरूपं विलोकितुं पौरवधुमिषेण । मञ्चेषु पञ्चेषुवधूरिवास्थादेकाप्यनेकाः परिकल्प्य मूर्तीः ॥७६।। नरेन्द्रवीक्षाकुतुकी प्रमोदादमानिवान्तनगरं जनौघः । अभ्रङ्कषागारशिखाधिरूढश्चतुर्थलोकायितमाततान ॥७७॥
20