________________
[३३
5
10
10
गुणानुमोदनाद्वारे भरतकथा]
उद्वीक्ष्य तं कोपकडारचक्षुरित्यब्रवीत् पूर्वपयोधिपाता । अरे ! सभायां मम कः ससर्ज शरं करं मौलिमणाविवाहे: ? ॥१८|| इति ब्रुवाणः स्वयमेव बाणमुत्थाय तं पाणितले चकार । प्रकोपकम्प्राधरपल्लवस्तत्पुङ्खाक्षरश्रेणिमवाचयच्च ॥१९॥ नाभेयजन्मा भरताभिधानः समेत्य शास्ता दिशतीति चक्री । यच्छन्तु दण्डं मम रत्नराज्या राज्यानि कर्तुं यदि वोऽस्ति वाञ्छा ॥२०॥ इत्यक्षरालीमवलोक्य मन्त्रमिवोरगस्तत्क्षणमाप्य शान्तिम् । रत्नौघमादाय च मागधेशस्तमादिचक्रायुधमाजगाम ॥२१॥ तत्काण्डदण्डेन समं स दण्डं समर्प्य तं प्राञ्जलिरित्युवाच । अद्याद्यहं देव ! तव प्रसादवशाद् वसामीह निदेशकारी ॥२२॥ श्रुत्वेति तद्भक्तिवचः प्रसन्नचेताः स चक्री तमथो विसृज्य । निवर्तयामास रथं पयोधेः संरम्भतः स्वस्य मनोरथं च ॥२३॥ निष्कण्टकोऽसौ कटकं समेत्य द्विड्वारणो निर्मितपारणोऽथ । अष्टाहिकां मागधतीर्थनाथमुद्दिश्य चक्री रचयाञ्चकार ॥२४॥ क्रमादपाच्यां वरदामतीर्थाधिपं प्रभासाधिपति प्रतीच्याम् । सिन्धुस्रवन्तीपतिमप्यजैषीत् प्राग्वद् मनीषी भरतो नृपेन्द्रः ॥२५।। सैन्यैरदैन्यैरनुचक्ररत्नं गन्ता दिगन्तानपि गाहमानः । वैताढ्यशैलं भरतार्धफालीद्वयान्तरासीवनिकामगात् सः ॥२६॥ सैन्यं निवेश्यास्य च दक्षिणस्यामुपत्यकामामथ पार्थिवेन्द्रः । विशिष्टभासा तपसाऽष्टमेनाचकर्ष वैताढ्यकुमारदेवम् ॥२७॥ आगत्य सद्यश्चलितासनोऽस्मै प्रौढानि कृत्वापि च ढौकनानि । अद्यादि दासोऽस्मि तवेत्युदित्वा यथागतं सोऽपि जगाम धाम ॥२८॥ कृत्वा नृपः पारणमाहिताष्टाहिकोऽथ सेनापतिरत्नमूचे । सखे ! सुषेणाभिध ! शाधि सिन्धु-वैताढ्ययोदक्षिणनिष्कुटं त्वम् ॥२९॥
15
____15
20