________________
३२]
10
[विवेकमञ्जरी सेनाशतक्षोदितभूमिगोलप्रेढोलधूलीस्थगितस्तदाऽर्कः । भेरीरवत्रस्ततुरङ्गकृष्टरथः पपातेव कुहापि कुञ्जे ॥६॥ अस्मत्प्रभोः सैन्यभरेण भग्नफणाः फणीन्द्रो मियते वराक: इतीव तक्षन्त इलां किलाश्ववराः खुराप्रैस्तलिमा वितेनुः ॥७॥ रथा रथाङ्गध्वनिर्भिमहेभा गर्जाभिरश्वा अपि हेषितेन । जनो जनैः शब्दपरम्पराभिरलक्ष्यत क्षोणिरजोऽन्धकारे ॥८॥ ध्वस्तालकेव ग्लपितैर्वनान्तैः खुरैर्हरीणां सनखक्षतेव । प्रम्लानमाल्येव जलैर्विदूर्भुक्तोज्झिता भूः कटकैस्तदाऽऽसीत् ॥९॥ अथानुचक्रं भरतेश्वरस्य यान्ती द्विगव्यूतिमितैः प्रयाणैः । सा वाहिनी पूर्वपयोधिकान्तोपकण्ठसंश्लेषवती बभूव ॥१०॥ तत्कालमाद्वादशयोजनान्तं समन्ततो वर्धकिनिर्मितेषु । समावसन्नाशु निवासकेषु तत्सैनिकाः स्वेष्विव मन्दिरेषु ।।११।। तत्रादधात् पौषधशालिकां च रत्नोच्चयैर्वार्धकिरत्नमुच्चैः । महेभशैलादवतीर्य सत्यां देवो व भास्वान् भरतो विवेश ॥१२॥ कुशीलशास्ता कुशसंस्तरे स कृतोपवासत्रितयोऽह्नि तुर्ये । स्नात्वाऽथ कृत्वा बलिकर्म शस्रपूर्णं रथं सौर्यमिवारुरोह ॥१३॥ स वीरघण्टायुगयुग्मरम्यं द्वीन्दुं द्विभास्वन्तमिवामराद्रिम् । महारथः सारथिना प्रणुन्नरथ्यं समुद्रेऽथ रथं निनाय ॥१४॥ नाभेयसूरम्भसि नाभिदध्ने रथं समुद्रान्तरथो निवेश्य । अधिज्यकोदण्डगुणप्रणादाद् यादांसि चक्रे चकितश्रवांसि ॥१५॥ पयोनिधेर्मागधतीर्थनाथदेवं वशीकर्तुमसौ नृदेवः । स्वनामचिह्न किल धूतबाणमुद्भूतरुग्दूतमिवोत्ससर्ज ॥१६।। सपक्षसूत्कारभरेण भीमः शर गरूत्मानिव चण्डवेगः । गत्वा सभां मागधतीर्थभर्तुर्भर्तुर्जयस्तम्भ इवोल्ललास ॥१७||
15