________________
5
10
15
20
३० ]
इत्यस्यां सह मोहेन विलीनं चित्तमप्यथ । तद्विप्रतारकस्थानभरदानभयादिव ॥१३०॥ परमे परमेश्वर्यास्तस्या ज्ञाने विजृम्भिते । आत्मा शरीरमप्यौज्झद् न स्वमेतदपीति वा ॥ १३१ ॥ -- अस्यामस्यावसर्पिण्यां प्राच्यसिद्धस्य तद् वपुः । अभ्यर्च्य निदधुस्तूर्णं विबुधाः क्षीरनीरधौ ॥१३२॥ भरतः शोकहर्षाभ्यां कवोष्णश्रुविमिश्रदृक् । स्वामिनो देशनास प्रविशेश यथाविधि ॥ १३३॥ त्रिः परीय जगन्नाथं प्रणिपत्य च भूपतिः । निषसाद यथास्थानं पद्मकोशीकृताञ्जलिः ॥१३४॥ आयोजनविसर्पिण्या सर्वभाषानुरूपया । भारत्या भगवान् धर्मदेशनामिति निर्ममे ॥ १३५॥ 'असावपारसंसारपारावारान्तरा तरी । धर्मप्रवृत्तिरेकैव युज्यते कर्तुमात्मसात् ॥१३६॥ सर्वदेशविरत्यात्मभेदाभ्यां सा दिरूपभाक् । शीघ्राद्यभेदा व्यस्तान्यभेदा मोक्षाय गच्छति ॥१३७॥ दान - शील- तपो - भावफलकैः परिकल्पितां । सुसम्यकत्वप्रतिष्ठानासदा चारित्रशोभिता ॥ १३८ ॥ गुरूपदेशनिर्यामवाचा संचारिता जनैः । कर्मावर्ताष्टकं हित्वा परं पारं प्रयात्यसौ ॥ १३९ ॥ युग्मम् ॥ तद् मोक्ष इति विख्यातमनन्तमपुनर्भवम् । अनामयमनाबाधमचलं शिवमक्षयम्" ॥१४०॥ श्रुत्वेति स्वामिनः शर्मदेशिनीमिति देशनाम् । यतिधर्ममधुः केऽपि श्राद्धधर्मं च केचन ॥१४१॥
44
[ विवेकमञ्जरी