________________
[२९
गुणानुमोदनाद्वारे भरतकथा]
मातः ! सुतवियोगेन दुःखिता त्वं पुरा चिरम् । रूक्षाक्षरं समादिक्षः परं पश्य सुतश्रियम् ॥११८॥ पितामहीं महीन्द्रोऽभिधायेत्यारोप्य च द्विपम् । आत्मनापि समारोहत् कृतकौतुकमङ्गलः ॥११९।। सान्तः पुरपरीवारो नगराद् निरगादयम् । हास्तिकाश्वीयपातसैन्यसंचलितावनिः ॥१२०॥ अथ व्रजन् गजारूढो मरुदेवामुवाच सः । मातराकर्ण्यतामात्मसुतवैभवमद्भुतम् ॥१२१॥ रूप्यकल्याणमाणिक्यमयशालत्रयं सुराः ।। इदं यद्देशनासा चक्रिरे शक्रशासनात् ॥१२२॥ अथ वन्दारुभिर्वृन्दारकैर्बन्दिवरैरिव । त्वत्पुत्रस्य पुरो मातः ! क्रियते विजयध्वनिः ॥१२३॥ अयं दुन्दुभिराकाशे घनाघन इव ध्वनन् । मातस्त्वत्पुत्रसेवार्थमिवाह्वयति दिक्पतीन्" ॥१२४॥ श्रुत्वेति मरुदेवाया हर्षबाष्पामृतैस्तदा । नेत्रयोर्नीलिकापङ्कः साक्षात् प्रक्षालितः क्षणात् ॥१२५।। स्वयमेवाथ पश्यन्ती सा तादृग्विभुवैभवम् ।
आनन्दविस्मयस्मेरलोचनेदमचिन्तयत् ॥१२६।। 'अये ! वैभवमस्तीदृग् मद्भुवो भुवनाद्भुतम् । भरतस्य वराकस्य वृथा दोषमदामहम् ॥१२७।। शयिनो यावदुत्सङ्गे सुतास्तावत् किलात्मनः । यदीदृग्वैभवः पुत्रो मय्यौदासीन्यवानयम् ॥१२८॥ मुधा तदहमप्यासं पुत्रमोहकदर्थिता। स्वार्थं विनाऽत्र संसारे न स्वः कस्यापि कोऽपि यत्" ॥१२९॥