________________
[२७
10
गुणानुमोदनाद्वारे भरतकथा]
तयोः फणिपतिः प्रीतः प्रज्ञप्तिप्रमुखां ददौ । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्रिकाम् ॥९४॥ विद्याः किलैता वैताढ्यं दक्षिणोत्तरपक्षयोः । प्राभवं प्रथयिष्यन्ति भवतोरित्युवाच च ॥१५॥ प्रभुप्रभावसंप्राप्तविद्यौ हृद्यौजसाविमौ । गतौ वैताढयमावेद्य पितृभ्यां भरताय च ॥९६।। वर्षान्तेऽथ विभुः श्रेयान् श्रेयांसोद्भुतश्रिया । अकार्यतेक्षुसारेण पारणं पुण्यकारणम् ॥९७।। अथ वर्षसहस्रान्ते विश्रान्तेषु विकर्मसु । फाल्गुने मासि कृष्णायां प्रहरेकादशीतिथौ ॥९८॥ चन्द्रे च सोत्तराषाढे न्यग्रोधस्य तरोस्तले । अवाप केवलज्ञानं शुक्लध्यानधनो जिनः ॥९९॥ युग्मम् ॥ तदैत्य वासवा भक्तिकलिताश्चलितासनाः ।
स्वामिनः केवलोत्पत्तिमहिमानं वितेनिरे ॥१००|| $$ "इतश्च भक्तिभरतो भरतो मातरं पितुः ।
तदागमद् नमस्कर्तुं कुलदेवीमिवात्मनः ॥१०१।। तां च पुत्रवियोगा, कुर्वन्तीमश्रुवर्षणाम् । नीलीलुप्तदृशं मेघच्छन्नार्केन्दुं यथा दिवम् ॥१०२॥ पौत्रोऽद्याऽऽयानयं मातस्त्वत्पादानभिवन्दते । विज्ञप्यैवं प्रणम्यास्या न्यविक्षद् भरतः पुरः ॥१०३।। अथ तेनात्मपुत्रेण समं प्रोषितसंमदा । तदा सा निजगादेति शोकगद्गदया गिरा ॥१०४॥ अवनं श्रितवान् वत्स ! त्वमतुच्छपरिच्छदः । मदीयपुत्रको गात्रमात्रस्तु वनमासदत् ॥१०५।।