________________
[विवेकमञ्जरी
२६]
स्तुत्वा नत्वा च यातेषु सुतेषु त्रिदशेष्वपि । मौनेन जगदाधारो विजहारोर्वरातले ॥८२।। विभुना भ्रमता प्रापि भिक्षा न क्वापि पारणे । भिक्षानभिज्ञः स्वर्णादि तदा लोको ह्यढौकयत् ॥८३॥ तथाप्यनार्तः क्षुत्तृष्णाघातैः कच्छादिभिः प्रभुः ।
आलोच्याऽमोचि तस्थे च गङ्गाप्रस्थे फलाशनैः ।।८४॥ $$ अथ कच्छ-महाकच्छसुतौ पूर्वनियोजितैः । तदा नमि-विनम्याख्यौ पित्रोः पादान्तमीयतुः ॥८५।। अथैतौ प्रेषितौ ताभ्यां सेवितुं भरतेश्वरम् । अभ्यधत्तां गिरं गर्वगिरिस्रोतस्विनीमिति ॥८६॥ विभुं विहाय नाभेयं नावां सेवावहे परम् । घनाद् विनाऽन्यतस्तोयं किं बप्पीह समीहते ? ॥८७॥ सन्धामिति विधायाथ पित्रोरापृच्छय च क मान् । प्रभुं गत्वा च नत्वा च तौ व्यजिज्ञपतामिति ॥८८॥ क्षेत्रमात्रापि किं तात ! भागेऽस्माकं न भूरभूत् ? । विज्ञप्तोऽपीत्यदाद् वाचं ताभ्यां वाचंयमो न सः ॥८९।। अथ भक्तिमतन्वातां तौ भर्तर्यवक्तर्यपि । नेत्रैः कक्षापटः स्वर्गवासो वेति कृताग्रहे ॥९॥ तत्कृपाणरूयीमध्यगतो विभुरशोभत । जलकान्त इवापास्तपापनीरो भवाम्बुधौ ॥११॥ प्रभुं प्रणन्तुमायातोऽन्यदाऽहीन्दुरुवाच तौ । कौ युवां संश्रितौ किं वा मौनध्यानधनं जिनम् ? ॥९२।। पृष्टाविति फणीन्द्रेण हृष्टावेतस्य तावपि । एकस्वामिव्रतावात्मवित्ताग्रहमशंसताम् ॥९३।।
20