SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे भरतकथा ] स्वाम्यादिष्टास्ततो हृष्टाः सचिवाः शुचिवारिभिः । भरतं परतन्त्रेच्छमभ्यषिञ्चन् पितुः पदे ॥७०॥ तद्बाहुबलिमुख्यानामपि बाहुबलिस्पृशाम् । विभुर्विभज्य भूभागानङ्गजानामदाद् मुदा ॥७१॥ दत्तवार्षिकदानोऽथ चैत्रश्यामाष्टमीतिथौ । दिवाचन्द्रोत्तराषाढायोगे यामे च पश्चिमे ॥७२॥ सुरासुरनरैः सेन्द्रैः कृतनिष्क्रमणोत्सवः । व्रतकामी वनं स्वामी सिद्धार्थाभिधमभ्यगात् ॥७३॥ युग्मम् ॥ शिबिकायास्तदोत्तीर्य तले किङ्किल्लिभूरुहः स्वयं । जगदलङ्कारोऽलङ्कारानमुचद् विभुः ॥७४॥ श्रङ्गे सुवर्णशैलस्य सिद्धसिन्धुप्रवाहवत् । वासवोंसेऽथ देवस्य देवदूष्यं न्यवेशयत् ॥७५॥ दशमद्वाररोधेन सापराधानिव प्रभुः । ततश्चतसृभिः केशानुच्चखानैष मुष्टिभिः ||७६ || स्कन्धकल्याणकुम्भाग्रपल्लवाः सन्त्वमी कचाः । इत्यसौ पञ्चमीं मुष्टिममोचि वृत्रविद्विषा ॥७७॥ ततः क्षीरार्णवे क्षिप्त्वा केशमुष्टिचतुष्टयम् । तुमुले कुलिशास्त्रेण सकले मुकुरीकृते ॥७८॥ चीर्णाष्टमतपाः स्वामी कृत्वा सिद्धनमस्क्रियाम्ं । सर्वसावद्ययोगानां प्रत्याख्यानमुदीरयन् ॥७९॥ अङ्गीचकार चारित्रं वहित्रं भवनीरधेः । तन्मन:पर्यवज्ञानमरित्रीमिव चाददे ॥ ८०॥ विशेषकम् ॥ चतुःसहस्रसंख्यैश्च समं भर्त्रा समन्ततः । भूपैः कच्छ-‍ -महाकच्छमुख्यैर्दीक्षा तदादे ॥८१॥ [ २५ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy