SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २४] [विवेकमञ्जरी 10 प्रणम्याग्रे निविष्टाय तस्मै स्वामीदमादिशत् । वत्स ! राज्यमिदं धत्स्व प्रविव्रजिषवो वयम् ॥५८॥ "प्राह वाणीमिमां पाणी संपुटीकृत्य सोऽप्यथ । राज्यं त्वत्सेवनादन्यत् तातेच्छामि न किञ्चन ॥५९॥ त्वदने प्लवमानस्य स्वेदाम्भोऽभिमतं यथा । तथा तात ! न मे राज्याभिषेकावर्जितं पयः ॥६०॥ तात ! त्वच्चरणाम्भोजरजसा मे यथा मुदः । न तथा पट्टबन्धेन मूनि साम्राज्यशंसिना ॥६१॥ यथा तुष्यामि ते तात ! सुप्रसादविलोकितैः । तथा न वारवनितोल्लासितैः सितचामरैः ॥६२॥ छायां पुरो निविष्टस्ते हस्तेन स्पृशता शिरः । यथा भेजे तथा नाहमातपत्रेण कहिचित् ॥६३।। त्वदीयशासनगिरा प्रीयेते मे यथा श्रुती । न तथा तात ! संभ्रान्तबन्दिवृन्दसुभाषितैः" ॥६४॥ "सेवारम्भरतं प्राह भरतं प्रभुरप्यथ । वत्स ! सेवा पितुः सेयमाज्ञाऽवज्ञायते न यत् ॥६५।। अन्वर्था नन्दनास्ते ये सितासितकृतः पितुः । परेऽङ्गजत्वमात्रेण द्वेष्यां खलु मला इव ॥६६॥ निश्चिन्ता मुक्तिहेतूनि कुर्वन्तो न पतन्ति यत् । पूर्वजा वत्स ! तनयस्तेनापत्यमितीष्यते ॥६७॥ पुरुषार्थत्रयीभारमाद्रियस्व तदद्य मे। निश्चिन्तोऽहं चतुर्थाय पुमर्थाय यते यतः" ॥६८।। आज्ञां सुरासुरैर्मान्यां निशम्येति निशातधीः । द्विधाऽप्यवाङ्मुखस्तस्थौ भरतः पुरतः प्रभोः ॥६९॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy