________________
गुणानुमोदनाद्वारे भरतकथा ]
शुभेन विधिना तेन बाहुश्चकिपदप्रदम् । सुबाहुस्तु बलाधायि कर्म निर्मितवान् मुनिः ॥२२॥ प्रशंसां च तयोश्चक्रे वज्रनाभमुनीश्वरः । तेन पीठ - महापीठौ जातौ दुर्मनसौ मुनी ||२३|| तदीर्ष्याजनितं कर्म ताभ्यामालोचनं विना । स्त्रीभावफलदं चक्रे मायामिथ्यात्वयोगतः ॥२४॥ वज्रनाभमुनीन्द्रोऽर्हद्भक्त्यादिस्थानैः पुनः । विंशत्याऽऽराधयामास तीर्थकृन्नामकर्म सः ॥ २५॥ क्रमात् पञ्चापि ते पूर्वलक्षानं दीक्षां चतुर्दश । पालयित्वाऽथ सर्वार्थसिद्धश्रियमशिश्रियन् ॥२६॥ ततोऽसौ वज्रनाभात्मा च्युत्वाऽऽत्मा जगतामयम् । श्रीनाभि- मरुदेवाङ्गजन्मा ऋषभोऽभवत् ॥२७॥ सुमङ्गला-सुनन्दे ते नन्दतः स्म सविस्मयम् । प्रियात्वं तस्य विश्वैकप्रभोः प्राप्य कथञ्चन ॥२८॥ अधादपूर्णषट्पूर्वलक्षा गर्भे सुमङ्गला ।
बाहु - पीठयोर्जीवौ च्युतौ सर्वार्थसिद्धतः ॥२९॥ सुनन्दापि कृतानन्दा तदानीमुदरे दधौ ।
सुबाहु - महापीठौ तत एव दिवश्च्युतौ ॥३०॥ दृष्ट्वा चतुर्दश स्वप्नानथ देवी सुमङ्गला । स्वाम्युक्तचक्रिमातृत्वप्रीता युग्ममसूत सा ॥३१॥ सुतो भरत इत्यस्या ब्राह्मीति च सुताऽभवत् । सुनन्दा बाहुबलिनं सुन्दरीमप्यजीजनत् ॥३२॥ पुनरेकोनपञ्चाशत्पुत्रयुग्मानि जीवसूः । असूत सुकृताहूतमङ्गलानि सुमङ्गला ||३३||
[ २१
5
10
15
20