________________
5
10
15
20
२२]
काश्मीरकीरकाबेरकाम्बोजकमलोत्कलाः । करहाटकुरूत्काणाक्रथकेशिककोशलाः ॥३४॥
केशकारुतकारुषकच्छकर्णाटकाकटाः । केककोल्लगिरी कामरूपकङ्कणकुन्तलाः ॥३५॥ कलिङ्गकलकूटौ च करकण्ठश्च केरलः । खसखर्खरखेटाश्च गौडाङ्गौ गोप्यगाङ्गकौ ॥३६॥ चौडचिल्लरचैद्याश्च जालन्धरकटङ्कणौ । टक्को डियाणडाहालतङ्गतायकतोसलाः ॥३७॥ दशार्णदण्डकौ देवसभनेपालनर्तकाः । पञ्चालपल्लवौ पौण्ड्रपाण्ड्यप्रत्यग्रथार्बुदाः ॥३८॥ बर्बराभीरभट्टीयमाहिष्मकमहोदयाः । मेरण्डमरुलौ मेदमेरुमुद्गमङ्कनाः ॥३९॥ मल्लवर्तमहाराष्ट्रयवनारामराढकाः । लाटब्रह्मोत्तरब्रह्मावर्तब्राह्मणवाहकाः ॥४०॥
विदेहवङ्गवैराटवनवासवनायुजाः । वाह्रीकवल्लवावन्तिवह्नयः शकसिंहलौ ॥ ४१ ॥ सुह्यसूर्परसौवीरसुराष्ट्रसुहडास्मकाः । हूणहूरकहयजहंसा हुडुकहरकौ ॥४२॥ इत्यष्टानवतिः सर्वेऽप्यभ्यधीयन्त ते सुताः । स्वामिना कृततज्जन्मोत्सवेनोत्सवपूर्वकम् ॥४३॥ स्वामिनस्तान्यपत्यानि धात्रीभिः पञ्चपञ्चभिः । पाल्यमानान्यवर्धन्त भावनाभिर्व्रतानि वा ॥४४॥
विभोर्धर्मशताङ्गस्याङ्गानीव शतमङ्गजाः । रेजिरे ते च ते च द्वे वैजयन्त्याविवाङ्गजे ॥४५॥
[ विवेकमञ्जरी