SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १८] [विवेकमञ्जरी निर्मितम् । केन? 'विहिणा' विधिना पिण्डैषणाध्ययमप्रणीताचारेण, यदुक्तम्"दाणेणं हुंति उत्तमा भोगा" [ ] इति ॥२७॥ सो पढमचक्कवट्टी भरहो भवियाण कुणउ कल्लाणं । आयरिसघरे केवललच्छीए जो सयं वरिओ ॥२८॥ [स प्रथमचक्रवर्ती भरतो भविकानां करोतु कल्याणम् । आदर्शगृहे केवललक्ष्म्या यः स्वयं वृतः ॥] व्याख्या - सोऽनन्यसामान्यगुणगरिम्णा जगद्विख्यातः प्रथमचक्रवर्ती भरतो भविकानां कल्याणं शिवं करोतु । यः किम् ? यः स्वयमात्मना रुच्येति भावः, 'वरिओ' वृतोऽङ्गीकृतः । कया ? 'केवललच्छीए' केवलज्ञानलक्ष्या । किमु10 पशमस्थाने क्वापीत्याह - 'आयरिसघरे' आदर्शगृहे तच्च मोहस्यैकं निकेतनम् । यतोऽत्र विनश्वराशुचिकृतघ्नविभिन्नस्वरूपेऽपि वपुषि वैपरीत्येनाभिमानो भृशमुज्जृम्भते। अत एव स्वयं वृतोऽसौ, न तु तेन सा वृत्ता। एतावता किमुक्तम् ? पूर्वस्मिन् भवे शुद्धशीलसाधुवैयावृत्त्यं यथाविधि वितन्तवाऽनेन तत्पुण्यगण्य मुपायंत, येन त्रिलोकीतिलकैरभिगम्ययापि केवललक्ष्म्या स स्वयमभिसृत 15 इति ॥२८॥ अथात्मभाषाविभूषाय बाहुबलिगुणविलयं कलयन्नाह - बालाण तवस्सीण य थविरगिलाणाण जेण साहूणं । वीसामणयं काही बाहुबली तेण बाहुबली ॥२९॥ [बालानां तपस्विनां च स्थविरग्लानानां येन साधूनाम् । 20 विश्रामणामकार्षीद् बाहुबलिस्तेन बाहुबली ॥] व्याख्या – बाहुबलिर्भरतेश्वरलघुभ्राता बाहुबली बाह्वोर्बलमतीव श्रेष्ठं यस्येति बाहुबली, तेन हेतुना, येन 'वीसामणयं काही' विश्रामणामकार्षीत् 'पूर्वजन्मनि' १. दानेन भवन्त्युत्तमा भोगाः । २. क.ग. आयंस।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy