________________
[१७
गुणानुमोदनाद्वारम्] अथ गुणानुमोदनाद्वारमाह - भरहाईण मुणीणं गुणगारववण्णणेण पावमलं । पक्खालेमि य सव्वं पवित्ततित्थोदएणं व ॥२६॥
[भरतादीनां मुनीनां गुणगौरववर्णनेन पापमलम् ।
प्रक्षालयामि च सर्वं पवित्रतीर्थोदकेनेव ॥] व्याख्या । न केवलमर्हदादीन् चतुःशरणं प्रपद्ये, किन्तु ‘पक्खालेमि य' प्रक्षालयाम्यपनयामि च । किं तत् ? पापं, अलमतिशयेन । नैहिकभवमेवेत्याह-'सव्वं' सर्वं पूर्वभवसंततिविततमपीतीति भावः । केन ? 'गुणगारववण्णणेण' गुणानां गौरवं महिमा गुणगौरवं तस्य वर्णनमुत्कीर्तनं तेन । केषाम् ? 'मुणीणं' मुनीनाम्। किविशिष्टानाम् ? 'भरहाईणं' भरतः श्रीयुगादिजिनसूनुरादौ येषां ते तथा तेषाम्। 10 केन ? 'पवित्ततित्थोदएणं व' पवित्रं पङ्कपटलपिच्छलतारहितं च तत् तीर्थं नद्यादेरवतारस्थानं च पवित्रतीर्थं तस्य उदकं जलं तत्तथा तेनेव । कोऽत्र भावः ? यथा पवित्रतीर्थोदकेन पापमलो निन्द्यमलः सर्वोऽपि वस्त्रदेहादेः प्रक्षाल्यते केनचित्, तथाहं भरतादिमुनिगणगौरववर्णनेन पापमधर्म्य कर्म अलमतिशयेनापनयामीति ॥२६॥ अधुना भरतगुणान् गाथायुगेनाह - विहियं वेयावच्चं विहिणा साहूण सुद्धसीलाण । सिरिरिसहसुओ भरहो जाओ भरहाहिवो तेणं ॥२७॥
[विहितं वैयावृत्त्यं विधिना साधूनां शुद्धशीलानाम् ।
श्रीऋषभसुतो भरतो जातो भरताधिपस्तेन ॥] व्याख्या । श्रीऋषभसुतो भरतो भरताधिपः षट्खण्डभरतक्षेत्रभूमण्डलाखण्डलस्तेन जातः संवृत्तः । यत्तदोनित्यसंबन्धित्वाद् येन साधूनां यतीनां शुद्धशीलानामजिह्मब्रह्मचारिणां वैयावृत्त्यं भक्तपानीयादिसंपादनरूपं विहितं
15