________________
१६]
[विवेकमञ्जरी इत्याचार्यश्रीबालचन्द्रविरचितायां विवेकमञ्जरीवृत्तौ चतुःशरणप्रतिपत्तिद्वारविवरणं नाम प्रथमः परिमल: समाप्तः ॥
शेषाहिमूलकलितः सुरशैलशाखी ताराप्रसूनकलितोरुदिगन्तशाखः । सूर्येन्दुमण्डलफलः स्फुटमेष यावत् तावज्जयं कलयतादिह जैत्रसिंहः ॥१॥